अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815
Showing posts with label Navgrah kavach. Show all posts
Showing posts with label Navgrah kavach. Show all posts

॥ श्री नवग्रह स्तोत्र ॥ नवग्रह स्तोत्र Navagraha Stotra

॥ श्री नवग्रह स्तोत्र ॥ नवग्रह स्तोत्र Navagraha Stotra

Navagraha Stotram

॥ ॐ गण गणपतये नमः ॥

जपाकुसुमसंकाशं काश्यपेयं महद्युतिम् ।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥



धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।

कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ३॥

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥



देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ ५॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥



नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८॥



पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९॥

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १०॥



नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।

ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥


॥ इति श्री नवग्रह स्तोत्रं सम्पूर्णम् ॥

॥ श्री सूर्य स्तोत्र ॥

॥ Shri Surya Stotra ॥

॥ ॐ गण गणपतये नमः ॥


अस्य श्रीभगवत्सूर्यस्तोत्रमहामन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप्छन्दः ।

श्रीसूर्यनारायणो देवता । सूं बीजम् । रिं शक्तिः । यं कीलकम् ।

सूर्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।



आदित्याय अङ्गुष्ठाभ्यां नमः । अर्काय तर्जनीभ्यां नमः ।

दिवाकराय मध्यमाभ्यां नमः । प्रभाकराय अनामिकाभ्यां नमः ।

सहस्रकिरणाय कनिष्ठिकाभ्यां नमः । मार्ताण्डाय करतलकरपृष्ठाभ्यां नमः ।



आदित्याय हृदयाय नमः । अर्काय शिरसे स्वाहा ।

दिवाकराय शिखायै वषट् । प्रभाकराय कवचाय हुम् ।

सहस्रकिरणाय नेत्रत्रयाय वौषट् । मार्ताण्डाय अस्त्राय फट् ।

भूर्भुवः सुवरोमिति दिग्बन्धः ॥



ध्यानम्

ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोमयं भास्वरं

भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् ।

आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं

भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ १ ॥



ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।

पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ २ ॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।

जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ३ ॥



ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।

अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ४ ॥

एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।

सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ५ ॥



पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।

अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ६ ॥

कमलासन देवेश कर्मसाक्षिन्नमो नमः ।

धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ७ ॥



सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।

क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ८ ॥

सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।

स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ९ ॥


सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ १० ॥


॥ इति श्री सूर्य स्तोत्रं सम्पूर्णम् ॥

॥ श्री चन्द्र स्तोत्र ॥
॥ Shri Chandra Stotra ॥

॥ ॐ गण गणपतये नमः ॥

श्वेताम्बर: श्वेतवपु: किरीटी,

श्वेतद्युतिर्दण्डधरो द्विबाहु: ।

चन्द्रो मृतात्मा वरद: शशांक:,

श्रेयांसि मह्यं प्रददातु देव: ॥ १ ॥


दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम ॥ २ ॥

क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: ।

हरस्य मुकुटावास: बालचन्द्र नमोsस्तु ते ॥ ३ ॥



सुधायया यत्किरणा: पोषयन्त्योषधीवनम ।

सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम ॥ ४ ॥

राकेशं तारकेशं च रोहिणीप्रियसुन्दरम ।

ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहु: ॥ ५ ॥

॥ इति श्री चन्द्र स्तोत्रम सम्पूर्णम् ॥


॥ श्री मंगल स्तोत्र ॥
॥ Shri Mangal Stotra ॥

॥ ॐ गण गणपतये नमः ॥

|| स्तोत्र ||
मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रद: !
स्थिरामनो महाकाय: सर्वकर्मविरोधक: !!
लोहितो लोहिताक्षश्च सामगानां। कृपाकरं!
वैरात्मज: कुजौ भौमो भूतिदो भूमिनंदन:!!
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्!
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम्!!
अंगारको यमश्चैव सर्वरोगापहारक:!
वृष्टे: कर्ताऽपहर्ता च सर्वकामफलप्रद:!!
एतानि कुजनामानि नित्यं य: श्रद्धया पठेत्!
ऋणं न जायते तस्य धनं शीघ्रमवाप्रुयात् !!
स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभि:!
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित्!!
अंगारको महाभाग भगवन्भक्तवत्सल!
त्वां नमामि ममाशेषमृणमाशु विनाशय:!!
ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यव:!
भयक्लेश मनस्तापा: नश्यन्तु मम सर्वदा!!
अतिवक्र दुराराध्य भोगमुक्तजितात्मन:!
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्!!
विरञ्चि शक्रादिविष्णूनां मनुष्याणां तु का कथा!
तेन त्वं सर्वसत्वेन ग्रहराजो महाबल:!!
पुत्रान्देहि धनं देहि त्वामस्मि शरणं गत:!
ऋणदारिद्रयं दु:खेन शत्रुणां च भयात्तत:!!
एभिद्र्वादशभि: श्लोकैर्य: स्तौति च धरासुतम्!
महतीं श्रियमाप्रोति ह्यपरा धनदो युवा:!!
!! इति श्रीस्कन्दपुराणे भार्गवप्रोक्त ऋणमोचन मंगलस्तोत्रम् !!
॥ इति श्री मंगल स्तोत्रम सम्पूर्णम् ॥



॥ श्री बुध स्तोत्र ॥
॥ Shri Budh Stotra ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्रीबुधस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप्छन्दः ।

बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः ।

ध्यानम्

भुजैश्चतुर्भिर्वरदाभयासिगदं वहन्तं सुमुखं प्रशान्तम् ।

पीतप्रभं चन्द्रसुतं सुरेढ्यं सिम्हे निषण्णं बुधमाश्रयामि ॥

पीताम्बरः पीतवपुः पीतध्वजरथस्थितः ।

पीयूषरश्मितनयः पातु मां सर्वदा बुधः ॥ १॥



सिंहवाहं सिद्धनुतं सौम्यं सौम्यगुणान्वितम् ।

सोमसूनुं सुराराध्यं सर्वदं सौम्यमाश्रये ॥ २॥

बुधं बुद्धिप्रदातारं बाणबाणासनोज्ज्वलम् ।

भद्रप्रदं भीतिहरं भक्तपालनमाश्रये ॥ ३॥



आत्रेयगोत्रसञ्जातमाश्रितार्तिनिवारणम् ।

आदितेयकुलाराध्यमाशुसिद्धिदमाश्रये ॥ ४॥

कलानिधितनूजातं करुणारसवारिधिम् ।

कल्याणदायिनं नित्यं कन्याराश्यधिपं भजे ॥ ५॥



मन्दस्मितमुखाम्भोजं मन्मथायुतसुन्दरम् ।

मिथुनाधीशमनघं मृगाङ्कतनयं भजे ॥ ६॥

चतुर्भुजं चारुरूपं चराचरजगत्प्रभुम् ।

चर्मखड्गधरं वन्दे चन्द्रग्रहतनूभवम् ॥ ७॥



पञ्चास्यवाहनगतं पञ्चपातकनाशनम् ।

पीतगन्धं पीतमाल्यं बुधं बुधनुतं भजे ॥ ८॥

बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा ।

यः पठेच्छृणूयाद्वापि सर्वाभीष्टमवाप्नुयात् ॥ ९॥

॥ इति श्री बुध स्तोत्रं सम्पूर्णम् ॥



॥ श्री गुरु स्तोत्र ॥

॥ Shri Guru Stotra ॥


॥ ॐ गण गणपतये नमः ॥

अथ गुरुस्तोत्रम्

बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।

लोकत्रयगुरुः श्रीमान्सर्वज्ञः सर्वकोविदः ॥ १॥

सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः ।

अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २॥



विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।

भूर्भुवःसुवरों चैव भर्ता चैव महाबलः ॥ ३॥

पञ्चविंशतिनामानि पुण्यानि नियतात्मना ।

वसता नन्दभवने विष्णुना कीर्तितानि वै ॥ ४॥



यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः ।

विपरीतोऽपि भगवान्प्रीतो भवति वै गुरुः ॥ ५॥

यश्छृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः ।

बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६॥


॥  इति श्री गुरु स्तोत्रं सम्पूर्णम् ॥





॥ श्री बृहस्पति स्तोत्र ॥
॥ Shri Brahaspati Stotra ॥

॥ ॐ गण गणपतये नमः ॥


अस्य श्रीबृहस्पतिस्तोत्रस्य गृत्समद ऋषिः, अनुष्टुप् छन्दः,

बृहस्पतिर्देवता, बृहस्पतिप्रीत्यर्थं जपे विनियोगः ।

गुरुर्बृहस्पतिर्जीवः सुराचार्यो विदांवरः ।

वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥ १॥



सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः ।

दयाकरः सौम्यमूर्तिः सुरार्च्यः कुङ्मलद्युतिः ॥ २॥

लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः ।

तारापतिश्चाङ्गिरसो वेदवैद्यपितामहः ॥ ३॥



भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।

अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥ ४॥

जीवेद्वर्षशतं मर्त्यो पापं नश्यति नश्यति ।

यः पूजयेद्गुरुदिने पीतगन्धाक्षताम्बरैः ॥ ५॥



पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ।

ब्राह्मणान्भोजयित्वा च पीडाशान्तिर्भवेद्गुरोः ॥ ६॥


॥ इति श्री बृहस्पति स्तोत्रं सम्पूर्णम् ॥


॥ श्री शुक्र स्तोत्र ॥

॥ Shri Shukra Stotra ॥


॥ ॐ गण गणपतये नमः ॥

शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् ।

रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम् ॥ १॥

येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात् ।

तानि शुक्रस्य नामानि कथयामि शुभानि च ॥ २॥



शुक्रः शुभग्रहः श्रीमान् वर्षकृद्वर्षविघ्नकृत् ।

तेजोनिधिर्ज्ञानदाता योगी योगविदां वरः ॥ ३॥

दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः ।

नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः ॥ ४॥



शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः ।

अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः ॥ ५॥

चतुर्विंशतिनामानि अष्टोत्तरशतं यथा ।

देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः ॥ ६॥



य इदं पठति स्तोत्रं भार्गवस्य महात्मनः ।

विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः ॥ ७॥

स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो

भक्त्या पठेच्च मनुजो नियतः शुचिः सन् ।

प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान्

राज्यं समस्तधनधान्ययुतां समृद्धिम् ॥ ८॥

॥ इति श्री शुक्र स्तोत्रं समाप्तम् ॥




॥ श्री शनैश्चर स्तोत्र ॥
॥ Shri Shani Stotra ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्रीशनैश्चरस्तोत्रस्य । दशरथ ऋषिः । शनैश्चरो देवता । त्रिष्टुप् छन्दः ॥

शनैश्चरप्रीत्यर्थ जपे विनियोगः । दशरथ उवाच ॥


कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दसौरिः ।

नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ॥ १॥

सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च ।

पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ २॥



नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृङ्गाः ।

पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ ३॥

देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि ।

पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ ४॥



तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा ।

प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय ॥ ५॥

प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् ।

यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय ॥ ६॥



अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात् ।

गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय ॥ ७॥

स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी ।

एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय ॥ ८॥



शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च ।

पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते ॥ ९॥

कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।

सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥ १०॥

एतानि दश नामानि प्रातरुत्थाय यः पठेत् ।

शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥ ११॥

॥ इति श्री शनैश्चर स्तोत्रं सम्पूर्णम् ॥








॥ श्री राहु स्तोत्र ॥

॥ Shri Rahu Stotra ॥


॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः ।

अनुष्टुप्च्छन्दः । राहुर्देवता । राहुप्रसादसिद्ध्यर्थे जपे विनियोगः ।



काश्यप उवाच ।

शृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् ।

सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १॥

सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् ।

आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २॥



राहुः सूर्यरिपुश्चैव विषज्वाली भयाननः ।

सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३॥

भुजगेशस्तीक्ष्णदंष्ट्रः क्रूरकर्मा ग्रहाधिपः ।

द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४॥



जप्त्वा तु प्रतिमां रंयां सीसजां माषसुस्थिताम् ।

नीलैर्गन्धाक्षतैः पुष्पैः भक्त्या सम्पूज्य यत्नतः ॥ ५॥

विधिना वह्निमादाय दूर्वान्नाज्याहुतीः क्रमात्।

तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६॥



हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् ।

सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७\

राहो कराळवदन रविचन्द्रभयङ्कर ।

तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८॥



सिम्हिकासुत सूर्यारे सिद्धगन्धर्वपूजित ।

सिंहवाह नमस्तुभ्यं सर्वान्रोगान् निवारय ॥ ९॥

कृपाणफलकाहस्त त्रिशूलिन् वरदायक ।

गरळातिगराळास्य गदान्मे नाशयाखिलान् ॥ १०॥



स्वर्भानो सर्पवदन सुधाकरविमर्दन ।

सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११॥

इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा ।

सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२॥



विषान्न जायते भीतिः महारोगस्य का कथा ।

सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३॥

एवं पठेदनुदिनं स्तवराजमेतं मर्त्यः प्रसन्न हृदयो विजितेन्द्रियो यः ।

आरोग्यमायुरतुलं लभते सुपुत्रान्सर्वे ग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४॥


॥ इति श्री राहुस्तोत्रं सम्पूर्णम् ॥


॥ श्री केतु स्तोत्र ॥

॥ Shri Ketu Stotra ॥

॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्री केतुस्तोत्रमहामन्त्रस्य वामदेव ॠषिः ।

अनुष्टुप्छन्दः । केतुर्देवता । केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।



गौतम उवाच

मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद ।

सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १॥



सूत उवाच

शृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।

गुह्याद्गुह्यतमं केतोः ब्रमणा कीर्तितं पुरा ॥ २॥

आद्यः कराळवदनो द्वितीयो रक्तलोचनः ।

तृतीयः पिङ्गळाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३॥



पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।

सप्तमो हिमगर्भश्च् तूम्रवर्णोष्टमस्तथा ॥ ४॥

नवमः कृत्तकण्ठश्च दशमः नरपीठगः ।

एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५॥



द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।

पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६॥

नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।

पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७॥



कुळुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।

पद्ममष्टदळं तत्र विलिखेच्च विधानतः ॥ ८॥

नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।

केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९॥



स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् ।

ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १०॥

केतोः कराळवक्त्रस्य प्रतिमां वस्त्रसंयुताम् ।

कुम्भादिभिश्च संयुक्तां चित्रातारे प्रदापयेत् ॥ ११॥



दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।

वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२॥

मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।

तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३॥


॥ इति श्री केतुस्तोत्रं सम्पूर्णम् ॥




॥ श्री नवनाग नाम स्तोत्र ॥

॥ Shri Navnag Naam Stotra ॥


॥ ॐ गण गणपतये नमः ॥



अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।

शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १॥



एतानि नवनामानि नागानां च महात्मनाम् ।

सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ २॥



तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ ३॥







॥ इति श्री नवनाग नाम स्तोत्रम् सम्पूर्णम् ॥













॥ श्री पितृ स्तोत्र ॥

॥ Shri Pitra Storta ॥





॥ ॐ गण गणपतये नमः ॥



रुचिरुवाच

नमस्येऽहं पितॄन्भक्त्या ये वसन्त्यधिदेवतम् । देवताः

देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १॥

नमस्येऽहं पितॄन्स्वर्गे ये तर्प्यन्ते महर्षिभिः ।

श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ २॥



नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।

श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३॥

नमस्येऽहं पितॄन्भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।

तन्मयत्वेन वाञ्छद्भिरृद्धिमात्यन्तिकीं पराम् ॥ ४॥



नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।

श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ ५॥

नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ।

वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ ६॥



नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ।

वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ ७॥

नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।

ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ ८॥



नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।

कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ ९॥

नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।

स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १०॥



नमस्येऽहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः ।

सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ ११॥

नमस्येऽहं पितॄञ्छ्राद्धे पाताले ये महासुरैः ।

सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२॥



नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।

भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३॥

नमस्येऽहं पितॄञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा ।

तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४॥



पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा ।

तथाऽन्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १५॥

पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्ताः ।

यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ १६॥



पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।

प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ १७॥

तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।

सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ १८॥



सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।

तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १९॥

येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।

ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ २०॥



ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।

कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु ॥ २१॥

कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।

तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२॥



दिनेदिने ये प्रतिगृह्णतेऽर्चां मासान्तपूज्या भुवि येऽष्टकासु ।

ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ २३॥

पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।

तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४॥



तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।

तथाऽग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ २५॥

ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि ।

तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ २६॥



रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् ।

आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ २७॥

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।

व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ २८॥



अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।

तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।

प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ २९॥

रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।



सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३०॥

विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।

भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ ३१॥

कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।



कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः ॥ ३२॥

वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।

विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३॥

महान्महात्मा महितो महिमावान्महाबलः ।



गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ ३४॥

सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।

पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५॥

एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।



त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ ३६॥



माक्रण्डेय उवाच

एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः ।

प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७॥

तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।

जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदञ्जगौ ॥ ३८॥



रुचिरुवाच

अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।

नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ ३९॥

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।

सप्तर्षोणां तथाऽन्येषां तान्नमस्यामि कामदान् ॥ ४०॥



मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।

तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि ॥ ४१॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।

द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ ४२॥



प्रजापतेः कश्यपाय सोमाय वरुणाय च ।

योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ ४३॥

नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।

स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ४४॥



सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।

नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ४५॥

अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।

अग्निसोममयं विश्वं यत एतदशेषतः ॥ ४६॥



ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।

जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ ४७॥

तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।

नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ ४८॥







॥ इति श्री पितृ स्तोत्रं सम्पूर्णम ॥

॥ श्री नवग्रह कवचम् ॥॥ Shri Nava Graha Kavach ॥

॥ श्री नवग्रह कवचम् ॥

॥Shri Nava Graha Kavach॥

navagraha kavacham
 Sampoorna navgrah kavach

॥ ॐ गण गणपतये नमः ॥

॥ ब्रह्मोवाच ॥
शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः ।
मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः ।
बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः ।
जठरञ्च शनिः पातु जिह्वां मे दितिनन्दनः ।

पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च ।
तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा ।
अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च ।
गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः ।
अणिमादीनि सर्वाणि लभते यः पठेद् ध्रुवम् ॥

एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः ।
स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ॥
अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् ।
दारार्थी लभते भार्यां सुरूपां सुमनोहराम् ।

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
जले स्थले चान्तरिक्षे कारागारे विशेषतः ।
यः करे धारयेन्नित्यं भयं तस्य न विद्यते ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥

नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता ।
काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत् ।
बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥

॥ इति श्री नवग्रह कवचं सम्पूर्णम् ॥

  navgraha kavach paath in hindi


॥ श्री सूर्य कवच स्तोत्रम् ॥॥ Shri Surya Kavach Stotram ॥ 

॥ ॐ गण गणपतये नमः ॥

॥ याज्ञवल्क्य उवाच ॥
श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥ १॥
देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् ।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ २॥

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः ।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ ३॥
घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः ।
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥ ४॥

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः ।
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः ॥ ५॥
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके ।
दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥ ६॥

सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः ।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति ॥ ७॥

॥ इति श्री सूर्यकवचस्तोत्रं सम्पूर्णम् ॥


॥ श्री चन्द्र कवचम् ॥॥ Shri Chandra Kavach ॥


॥ ॐ गण गणपतये नमः ॥

अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः ।
अनुष्टुप् छन्दः, श्रीचन्द्रो देवता, चन्द्रप्रीत्यर्थं जपे विनियोगः ।
समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ १॥

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ।
शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥ २॥
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ।
प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः ॥ ३॥

पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ।
करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥ ४॥
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ।
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥ ५॥

ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ।
अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ॥ ६॥
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्वोऽखिलं वपुः ।
एतद्धि कवचं दिव्यं भुक्तिमुक्तिप्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ७॥


॥ इति श्री चन्द्र कवचं सम्पूर्णम् ॥


॥ श्री मङ्गल कवचम् ॥॥ Shri Mangal Kavach ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्रीअङ्गारककवचस्तोत्रमन्त्रस्य कश्यप ऋषिः,
अनुष्टुप् छन्दः, अङ्गारको देवता, भौमप्रीत्यर्थं जपे विनियोगः ।
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥ १॥

अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः ।
श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥ २॥
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ ३॥

वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ ४॥
जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा ।
सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ ५॥

य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥ ६॥
सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ।
रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥ ७

॥ इति श्री मङ्गल कवचं सम्पूर्णम् ॥


॥ श्री बुध कवचम् ॥ –॥ Shri Budha Kavach ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः,
अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ।
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः ।
पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥ १॥

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ २॥
घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम ।
कण्ठं पातु विधोः पुत्रो भुजौ पूस्तकभूषणः ॥ ३॥

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः ।
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥ ४॥
जानुनी रौहिणेयश्च पातु जङ्घेऽखिलप्रदः ।
पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपुः ॥ ५॥

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥ ६॥
आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ७॥

॥ इति बुधकवचं सम्पूर्णम् ॥

॥ श्री बृहस्पति कवचम् ॥॥ Shri Brahaspati Kavach ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर
ऋषिः, अनुष्टुप् छन्दः, गुरुर्देवता, गं बीजं,
श्रीशक्तिः, क्लीं कीलकं, गुरुप्रीत्यर्थं जपे विनियोगः ।
अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥ १॥

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ २॥
जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ॥ ३॥

भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ४॥
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वन्द्य ऊरू मे पातु वाक्पतिः ॥ ५॥

जानुजङ्घे सुराचार्यो पादौ विश्वात्मकस्तथा ।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ ६॥
इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ ७॥

॥ इति बृहस्पतिकवचं सम्पूर्णम् ॥

॥ श्री शुक्रकवचम् ॥॥ Shri Shukra Kavach ॥

॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः ।
अनुष्टुप्छन्दः । श्रीशुक्रो देवता ।शुक्रप्रीत्यर्थे जपे विनियोगः ॥
मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ १॥

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ २॥
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ ३॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ ४॥
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥ ५॥

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७॥

॥ इति श्री शुक्र कवचं सम्पूर्णम् ॥



॥ श्री शनि वज्र पंजर कवचम् ॥॥ Shri Shani Vajjra Panjar Kavach ॥



॥ ॐ गण गणपतये नमः ॥

॥ विनियोगः ॥
ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः,
अनुष्टुप् छन्दः, श्री शनैश्चर देवता, श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥

॥ ऋष्यादि न्यासः ॥
श्रीकश्यप ऋषयेनमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्रीशनैश्चर देवतायै नमः हृदि ।
श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥

॥ ध्यानम् ॥
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १॥

॥ ब्रह्मा उवाच ॥
शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २॥
कवचं देवतावासं वज्रपंजरसंज्ञकम् ।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३॥

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।
नेत्रे छायात्मजः पातु पातु कणौं यमानुजः ॥ ४॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥

स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः ।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ६॥
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।
ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ७॥

पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः ।
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥ ८॥
इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९॥

व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।
कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः ॥ १०॥
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।
कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ११॥

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
द्वादशाऽष्टमजन्मस्थदोषान्नाशयते सदा ।
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ १२॥

॥ इति श्री शनि वज्र पंजर कवचम् सम्पूर्णम् ॥


॥ श्री राहु कवचम् ॥॥ Shri Rahu Kavach ॥

॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्रीराहुकवचस्तोत्रमन्त्रस्य चन्द्रमा
ऋषिः, अनुष्टुप्छन्दः, रां बीजम्, नमः शक्तिः,
स्वाहा कीलकम्, राहुकृत पीडानिवारणार्थे, धनधान्य,
आयुरारोग्य आदि समृद्धि प्राप्तयर्थे जपे विनियोगः ॥

प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥ १॥
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् ॥ २॥

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः ॥ ३॥
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ॥ ४॥

कटिं मे विकटः पातु ऊरू मे सुरपूजितः ।
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा ॥ ५॥
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।
सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः ॥ ६॥

राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या
पठत्यनुदिनं नियतः शुचिः सन् ।
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु-
रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ ७॥

॥ इति श्री राहु कवचं सम्पूर्णम् ॥

॥ श्री केतु कवचम् ॥॥ Shri Ketu Kavach ॥

॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य त्र्यम्बक ॠषिः ।
अनुष्टुप्छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः ।
केतुरिति कीलकम् । केतुकृत पीडा निवारणार्थे,
सर्वरोगनिवारणार्थे, सर्वशत्रुविनाशनार्थे, सर्वकार्यसिद्ध्यर्थे,
केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

॥ श्रीगणेशाय नमः ॥
केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ १॥
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ २॥

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ ३॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४॥

ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ॥ ५॥
य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥ ६॥

॥ इति श्री केतु कवचं सम्पूर्णम् ॥

Sampoorna navgrah kavach Stotram
Related Posts Plugin for WordPress, Blogger...