अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815
Showing posts with label हनुमान कवच Hanuman Kavach. Show all posts
Showing posts with label हनुमान कवच Hanuman Kavach. Show all posts

॥ श्री हनुमत् कवचम् ॥ ॥ Shri Hanumat Kavch ॥

॥ श्री हनुमत् कवचम् ॥॥ Shri Hanumat Kavch ॥

॥ ॐ गण गणपतये नमः ॥
॥ ॐ श्री हनुमते नमः ॥

ॐ अस्य श्री हनुमत्कवच स्तोत्र महामन्त्रस्य,
श्री रामचन्द्र ऋषिः । श्री हनुमान् परमात्मा देवता ।
अनुष्टुप् छन्दः । मारुतात्मजेति बीजं ।
अञ्जनीसूनुरिति शक्तिः । लक्ष्मणप्राणदातेति कीलकं ।
रामदूतायेत्यस्त्रं । हनुमान् देवता इति कवचं ।
पिङ्गाक्षोमित विक्रम इति मन्त्रः । श्रीरामचन्द्र प्रेरणया रामचन्द्र
प्रीत्यर्थं मम सकल कामना सिद्ध्यर्थं जपे विनियोगः ॥

॥ करन्यासः ॥

ॐ हां अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ॐ हीं रुद्र मूर्तये तर्जनीभ्यां नमः ।
ॐ हूं रामदूताय मध्यमाभ्यां नमः ।
ॐ हैं वायुपुत्राय अनामिकाभ्यां नमः ।
ॐ हौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः ।
ॐ हः ब्रह्मास्त्र निवारणाय करतल करपृष्ठाभ्यां नमः ॥

॥ अङ्गन्यासः ॥

ॐ हां अञ्जनीसुताय हृदयाय नमः ।
ॐ हीं रुद्र मूर्तये शिरसे स्वाहा ।
ॐ हूं रामदूताय शिकायै वषट् ।
ॐ हैं वायुपुत्राय कवचाय हुं ।
ॐ हौं अग्निगर्भाय नत्रत्रयाय वौषट् ।
ॐ हः ब्रह्मास्त्र निवारणाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ॥

॥ अथ ध्यानम् ॥

ध्यायेत्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्र प्रमुखं प्रशस्तयशसं देदीप्यमानं रुचा ।
सुग्रीवादि समस्तवानरयुतं सुव्यक्त तत्त्वप्रियं
संसक्तारुण लोचनं पवनजं पीताम्बरालङ्कृतं ॥ १॥

उद्यन् मार्ताण्डकोटि प्रकट रुचियुतं चारुवीरासनस्थं
मौञ्जी यज्ञोपवीताभरण रुचिशिखं शोभितं कुण्डलाङ्गं ।
भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनाद प्रमोदं ध्यायेदेवं
विधेयं प्लवग कुलपतिं गोष्पदीभूत वार्धिं ॥ २॥

वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डल
मण्डितंनिगूढमुपसङ्गम्य पारावार पराक्रमं ॥ ३॥
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिं ।
कुण्डल द्वय संशोभिमुखाम्भोजं हरिं भजे ॥ ४॥
सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुं ।
उद्यद् दक्षिण दोर्दण्डं हनुमन्तं विचिन्तयेत् ॥ ५॥

॥ अथ मन्त्रः ॥

ॐ नमो हनुमते शोभिताननाय यशोलङ्कृताय अञ्जनीगर्भ सम्भूताय ।
राम लक्ष्मणानन्दकाय । कपिसैन्य प्रकाशन पर्वतोत्पाटनाय ।
सुग्रीवसाह्यकरण परोच्चाटन । कुमार ब्रह्मचर्य । गम्भीर शब्दोदय ।
ॐ ह्रीं सर्वदुष्टग्रह निवारणाय स्वाहा ।

ॐ नमो हनुमते एहि एहि । सर्वग्रह भूतानां शाकिनी डाकिनीनां
विशमदुष्टानां सर्वेषामाकर्षयाकर्षय । मर्दय मर्दय । छेदय छेदय ।
मर्त्यान् मारय मारय । शोषय शोषय । प्रज्वल प्रज्वल । भूत मण्डल
पिशाचमण्डल निरसनाय । भूतज्वर प्रेतज्वर चातुर्थिकज्वर ब्रह्मराक्षस पिशाचः
छेदनः क्रिया विष्णुज्वर । महेशज्वरं छिन्धि छिन्धि । भिन्धि भिन्धि ।
अक्षिशूले शिरोभ्यन्तरे ह्यक्षिशूले गुल्मशूले पित्तशूले ब्रह्म राक्षसकुल
प्रबलनागकुलविष निर्विषझटितिझटिति । ॐ ह्रीं फट् घेकेस्वाहा ।

ॐ नमो हनुमते पवनपुत्र वैश्वानरमुख पापदृष्टि शोदा दृष्टि हनुमते
घो अज्ञापुरे स्वाहा । स्वगृहे द्वारे पट्टके तिष्डतिष्ठेति तत्र रोगभयं राजकुलभयं
नास्ति । तस्योच्चारण मात्रेण सर्वे ज्वरा नश्यन्ति । ॐ ह्रां ह्रीं ह्रूं फट् घेघेस्वाहा ।

॥ श्री रामचन्द्र उवाच ॥

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
अधस्तु विष्णु भक्तस्तु पातु मध्यं च पावनिः ॥ १॥
लङ्का विदाहकः पातु सर्वापद्भ्यो निरन्तरं ।
सुग्रीव सचिव: पातु मस्तकं वायुनन्दनः ॥ २॥

भालं पातु महावीरो भृवोर्मध्ये निरन्तरं ।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ३॥
कपोले कर्णमूले च पातु श्रीरामकिङ्करः ।
नासाग्रं अञ्जनीसूनुः पातु वक्त्रं हरीश्वरः ॥ ४॥

वाचं रुद्रप्रियः पातु जिह्वां पिङ्गल लोचनः ।
पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा ॥ ५॥
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ।
भुजौ पातु महातेजाः करौ च चरणायुधः ॥ ६॥

नगरन् नखायुधः पातु कुक्षौ पातु कपीश्वरः ।
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ ७॥
लङ्का निभञ्जनः पातु पृष्ठदेशे निरन्तरं ।
नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः ॥ ८॥

गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ।
ऊरू च जानुनी पातु लङ्काप्रसाद भञ्जनः ॥ ९॥
जङ्घे पातु कपिश्रेष्ठोः गुल्फौ पातु महाबलः ।
अचलोद्धारकः पातु पादौ भास्कर सन्निभः ॥ १०॥

अङ्गान्यमित सत्वाढ्यः पातु पादरङ्गुलीस्तथा ।
सर्वाङ्गानि महाशूरः पातु रोमाणि चाक्मवित् ॥ ११॥
हनुमत् कवचं यस्तु पठेद् विद्वान् विचक्षणः ।
स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥ १२॥

त्रिकालमेककालं वा पठेन् मासत्रयं नरः ।
सर्वान् रिपून् क्षणान् जित्वा स पुमान् श्रियमाप्नुयात् ॥ १३॥

॥ इति श्री हनुमत्कवचं सम्पूर्णं ॥


॥ श्री एक मुखी हनुमत्कवचम् ॥॥ Shri Ek Mukhi Hanumat Kavach ॥


॥ ॐ गण गणपतये नमः ॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥
श्रीरामदूतं शिरसा नमामि ॥

॥ श्रीहनुमते नमः ॥

एकदा सुखमासीनं शङ्करं लोकशङ्करम् ।
पप्रच्छ गिरिजाकान्तं कर्पूरधवलं शिवम् ॥

॥ पार्वत्युवाच ॥

भगवन्देवदेवेश लोकनाथ जगद्गुरो ।
शोकाकुलानां लोकानां केन रक्षा भवेद्ध्रुवम् ॥
सङ्ग्रामे सङ्कटे घोरे भूतप्रेतादिके भये ।
दुःखदावाग्निसन्तप्तचेतसां दुःखभागिनाम् ॥

॥ ईश्वर उवाच ॥

शृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया ।
विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ॥
कवचं कपिनाथस्य वायुपुत्रस्य धीमतः ।
गुह्यं ते सम्प्रवक्ष्यामि विशेषाच्छृणु सुन्दरि ॥

ॐ अस्य श्रीहनुमत् कवचस्त्रोत्रमन्त्रस्य
श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः ।
श्रीमहावीरो हनुमान् देवता। मारुतात्मज इति बीजम् ॥
ॐ अञ्जनीसूनुरिति शक्तिः । ॐ ह्रैं ह्रां ह्रौं इति कवचम् ।
स्वाहा इति कीलकम् । लक्ष्मणप्राणदाता इति बीजम् ।
मम सकलकार्यसिद्ध्यर्थे जपे वीनियोगः ॥

॥ अथ न्यासः ॥

ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
ॐ अञ्जनीसूनवे हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुसुतात्मने शिखायै वषट् ।
ॐ वज्रदेहाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ ब्रह्मास्त्रनिवारणाय अस्त्राय फट् ।

ॐ रामदूताय विद्महे कपिराजाय धीमही ।
तन्नो हनुमान् प्रचोदयात् ॐ हुं फट् स्वाहा ॥ इति दिग्बन्धः ॥

॥ अथ ध्यानम् ॥

ॐ ध्यायेद्बालदिवाकरधृतिनिभं देवारिदर्पापहंदेवेन्द्र-
प्रमुखप्रशस्तयशसं देदीप्यमानं रुचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ १॥

उद्यन्मार्तण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं
मौञ्जीयज्ञोपवीतारुणरुचिरशिखाशोभितं कुण्डलाङ्गम् ।
भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं
ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥ २॥

वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम् ।
नियुद्धकर्मकुशलं पारावारपराक्रमम् ॥ ३॥
वामहस्ते महावृक्षं दशास्यकरखण्डनम् ।
उद्यद्दक्षिणदोर्दण्डं हनुमन्तं विचिन्तयेत् ॥ ४॥

स्फटिकाभं स्वर्णकान्ति द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजेत् ॥ ५॥
उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ६॥

श्रीरामहृदयानन्दं भक्तकल्पमहीरूहम् ।
अभयं वरदं दोर्भ्यां कलये मारूतात्मजम् ॥ ७॥
अपराजित नमस्तेऽस्तु नमस्ते रामपूजित ।
प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ॥ ८॥

यो वारांनिधिमल्पपल्वलमिवोल्लङ्घ्य प्रतापान्वितो-
वैदेहीघनशोकतापहरणो वैकुण्ठतत्त्वप्रियः ।
अक्षाद्यर्चितराक्षसेश्वरमहादर्पापहारी रणे ।
सोऽयं वानरपुङ्गवोऽवतु सदा युष्मान्समीरात्मजः ॥ ९॥

वज्राङ्गं पिङ्गकेशं कनकमयलसत्कुण्डलाक्रान्तगण्डं
नाना विद्याधिनाथं करतलविधृतं पूर्णकुम्भं दृढं च
भक्ताभीष्टाधिकारं विदधति च सदा सर्वदा सुप्रसन्नं
त्रैलोक्यत्राणकारं सकलभुवनगं रामदूतं नमामि ॥ १०॥

उद्यल्लाङ्गूलकेशप्रलयजलधरं भीममूर्तिं कपीन्द्रं
वन्दे रामाङ्घ्रिपद्मभ्रमरपरिवृतं तत्त्वसारं प्रसन्नम् ।
वज्राङ्गं वज्ररूपं कनकमयलसत्कुण्डलाक्रान्तगण्डं
दम्भोलिस्तम्भसारप्रहरणविकटं भूतरक्षोऽधिनाथम् ॥ ११॥

वामे करे वैरिभयं वहन्तं शैलं च दक्षे निजकण्ठलग्नम् ।
दधानमासाद्य सुवर्णवर्णं भजेज्ज्वलत्कुण्डलरामदूतम् ॥ १२॥
पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमण्डलम् ।
दिव्यगेहकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ १३॥

॥ ईश्वर उवाच ॥

इति वदति विशेषाद्राघवो राक्षसेन्द्रम प्रमुदितवरचित्तो
रावणस्यानुजो ह् रघुवरवरदूतं पूजयामास भूयः
स्तुतिभिरकृतार्थः स्वं परं मन्यमानः ॥ १४॥

वन्दे विद्युद्वलयसुभगस्वर्णयज्ञोपवीतं
कर्णद्वन्द्वे कनकरुचिरे कुण्डले धारयन्तम् ।
उच्चैर्हृष्यद्द्युमणिकिरणश्रेणिसम्भाविताङ्गं
सत्कौपीनं कपिवरवृतं कामरूपं कपीन्द्रम् ॥ १५॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं सततं स्मरामि ॥ १६॥

ॐ नमो भगवते हृदयाय नमः ।
ॐ आञ्जनेयाय शिरसे स्वाहा ।
ॐ रुद्रमूर्तये शिखायै वषट् ।
ॐ रामदूताय कवचाय हुम् ।
ॐ हनुमते नेत्रत्रयाय वौषट् ।
ॐ अग्निगर्भाय अस्त्राय फट् ।
ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः ।
ॐ आञ्जनेयाय तर्जनीभ्यां नमः ।
ॐ रुद्रमूर्तये मध्यमाभ्यां नमः ।
ॐ वायुसूनवे अनामिकाभ्यां नमः ।
ॐ हनुमते कनिष्ठिकाभ्यां नमः ।
ॐ अग्निगर्भाय करतलकरपृष्ठाभ्यां नमः ।

॥ अथ मन्त्र उच्यते ॥

ॐ ऐं ह्रीं श्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
ॐ ह्रीं ह्रौं ॐ नमो भगवते महाबलपराक्रमाय
भूतप्रेतपिशाच शाकिनी डाकिनी यक्षिणी पूतनामारी
महामारी भैरव-यक्ष-वेताल-राक्षस-ग्रहराक्षसादिकं
क्षणेन हन हन भञ्जय भञ्जय मारय मारय शिक्षय
शिक्षय महामाहेश्वर रुद्रावतार हुं फट् स्वाहा ।

ॐ नमो भगवते हनुमदाख्याय रुद्राय सर्वदुष्टजन-
मुखस्तम्भनं कुरु कुरु ह्रां ह्रीं ह्रूं ठंठंठं फट् स्वाहा ।

ॐ नमो भगवते अञ्जनीगर्भसम्भूताय रामलक्ष्मणानन्दकराय
कपिसैन्यप्रकाशनाय पर्वतोत्पाटनाय सुग्रीवसाधकाय
रणोच्चाटनाय कुमारब्रह्मचारिणे गम्भीरशब्दोदयाय
ॐ ह्रां ह्रीं ह्रूं सर्वदुष्टनिवारणाय स्वाहा ।

ॐ नमो हनुमते सर्वग्रहानुभूतभविष्यद्वर्तमानान् दूरस्थान्
समीपस्थान् सर्वकालदुष्टदुर्बुद्धीनुच्चाटयोच्चाटय परबलानि
क्षोभय क्षोभय मम सर्वकार्यं साधय साधय हनुमते
ॐ ह्रां ह्रीं ह्रूं फट् देहि । ॐ शिवं सिद्धं ह्रां ह्रीं ह्रूं ह्रौं स्वाहा ।

ॐ नमो हनुमते परकृतान् तन्त्रमन्त्र-पराहङ्कारभूतप्रेतपिशाच
परदृष्टिसर्वविघ्नदुर्जनचेटकविधान् सर्वग्रहान् निवारय निवारयवध वध
पच पच दल दल किल किल सर्वकुयन्त्राणि दुष्टवाचं फट् स्वाहा ।

ॐ नमो हनुमते पाहि पाहि एहि एहि एहिसर्वग्रहभूतानां शाकिनीडाकिनीनां
विषं दुष्टानां सर्वविषयान्आकर्षय आकर्षय मर्दय मर्दय भेदय भेदय
मृत्युमुत्पाटयोत्पाटय शोषय शोषय ज्वल ज्वल प्रज्ज्वल प्रज्ज्वल
भूतमण्डलं प्रेतमण्डलं पिशाचमण्डलं निरासय निरासय
भूतज्वर प्रेतज्वर चातुर्थिकज्वर विषमज्वर माहेश्वरज्वरान्
छिन्धि छिन्धि भिन्धि भिन्धि अक्षिशूल-वक्षःशूल-शरोभ्यन्तरशूल-
गुल्मशूल-पित्तशूल-ब्रह्मराक्षसकुल-परकुल-नागकुल-विषं नाशय नाशय
निर्विषं कुरु कुरु फट् स्वाहा । ॐ ह्रीं सर्वदुष्टग्रहान् निवारय फट् स्वाहा ॥

ॐ नमो हनुमते पवनपुत्राय वैश्वानरमुखाय हन हन
पापदृष्टिं षण्ढदृष्टिं हन हनहनुमदाज्ञया स्फुर स्फुर फट् स्वाहा ॥

॥ श्रीराम उवाच ॥

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
प्रतीच्यां पातु रक्षोघ्न उत्तरस्यामब्धिपारगः ॥ १॥
उदीच्यामूर्ध्वगः पातु केसरीप्रियनन्दनः ।
अधश्च विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥ २॥

अवान्तरदिशः पातु सीताशोकविनाशनः ।
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ॥ ३॥
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ।
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ॥ ४॥

नेत्रे छायाऽपहारी च पातु नः प्लवगेश्वरः ।
कपोलकर्णमूले तु पातु श्रीरामकिङ्करः ॥ ५॥
नासाग्रे अञ्जनीसूनुर्वक्त्रं पातु हरीश्वरः ।
वाचं रूद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥ ६॥

पातु दन्तान् फाल्गुनेष्टश्चिबुकं दैत्यप्राणहृत् ।
ओष्ठं रामप्रियः पातु चिबुकं-
दैत्यकोटिहृत् पातु कण्ठं च दैत्यारिः
स्कन्धौ पातु सुरार्चितः ॥ ७॥

भुजौ पातु महातेजाः करौ तु चरणायुधः ।
नखान्नखायुधः पातु कुक्षिं पातु कपीश्वरः ॥ ८॥
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ।
लङ्काविभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥ ९॥

नाभिञ्च रामदूतस्तु कटिं पात्वनिलात्मजः ।
गुह्मं पातु महाप्राज्ञः सृक्किणी च शिवप्रियः ॥ १०॥
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ।
जङ्घे पातु महाबाहुर्गुल्फौ पातु महाबलः ॥ ११॥

अचलोद्धारकः पातु पादौ भास्करसन्निभः ।
पादान्ते सर्वसत्वाढ्यः पातु पादाङ्गुलीस्तथा ॥ १२॥
सर्वाङ्गानि महावीरः पातु रोमाणि चात्मवान् ।
हनुमत्कवचं यस्तु पठेद्विद्वान् विचाक्षणः ॥ १३॥

स एव पुरूषश्रेष्ठो भक्तिं मुक्तिं च विन्दति ।
त्रिकालमेककालं वा पठेन्मासत्रयं सदा ॥ १४॥
सर्वान् रिपून् क्षणे जित्वा स पुमान् श्रियमाप्नुयात् ।
मध्यरात्रे जले स्थित्वा सप्तवारं पठेद्यदि ॥ १५॥

क्षयाऽपस्मारकुष्ठादितापत्रयनिवारणम् ।
आर्किवारेऽश्वत्थमूले स्थित्वा पठतिः यः पुमान् ॥ १६॥
अचलां श्रियमाप्नोति सङ्ग्रामे विजयी भवेत् ॥ १७॥

यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात् ।
विवाहे दिव्यकाले च द्यूते राजकुले रणे ॥ १८॥
भूतप्रेतमहादुर्गे रणे सागरसम्प्लवे ।
दशवारं पठेद्रात्रौ मिताहारी जितेन्द्रियः ॥ १९॥

विजयं लभते लोके मानवेषु नराधिपः ।
सिंहव्याघ्रभये चाग्नौ शरशस्त्रास्त्रयातने ॥ २०॥
शृङ्खलाबन्धने चैव काराग्रहनियन्त्रणे ।
कायस्तम्भे वह्निदाहे गात्ररोगे च दारूणे ॥ २१॥

शोके महारणे चैव ब्रह्मग्रहविनाशने ।
सर्वदा तु पठेन्नित्यं जयमाप्नोत्यसंशयम् ॥ २२॥
भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ।
त्रिगन्धेनाथवा मस्या लिखित्वा धारयेन्नरः ॥ २३॥

पञ्चसप्तत्रिलौहैर्वा गोपितं कवचं शुभम् ।
गले कट्यां बाहुमूले वा कण्ठे शिरसि धारितम् ॥ २४॥
सर्वान् कामानवाप्नोति सत्यं श्रीरामभाषितम् ॥ २५॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ २६॥
ॐ हनुमानञ्जनीसूनुर्वायुपुत्रो महाबलः ।
श्रीरामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ २७॥

उदधिक्रमणश्चैव सीताशोकविनाशनः ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ २८॥
द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।
स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥ २९॥

तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ।
धनधान्यं भवेत्तस्य दुःखं नैव कदाचन ॥ ३०॥
ॐ ब्रह्माण्डपुराणान्तर्गते नारद अगस्त्य संवादे ।


॥ इति श्री एकमुखी हनुमत् कवचम् सम्पूर्णम् ॥



॥ श्री पंचमुख हनुमत्कवचम् ॥॥ Shri Panchmukhi Hanumat Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ श्रीउमामहेश्वराभ्यां नमः ॥
श्रीसीतारामचन्द्राभ्यां नमः ॥
श्रीपञ्चवदनायाञ्जनेयाय नमः ॥

॥ अथ श्रीपञ्चमुखीहनुमत्कवचप्रारम्भः ॥

॥ श्री पार्वत्युवाच ॥

सदाशिव वरस्वामिञ्ज्ञानद प्रियकारकः ।
कवचादि मया सर्वं देवानां संश्रुतं प्रिय ॥ १॥
इदानीं श्रोतुमिच्छामि कवचं करुणानिधे ।
वायुसूनोर्वरं येन नान्यदन्वेषितं भवेत् ।
साधकानां च सर्वस्वं हनुमत्प्रीति वर्द्धनम् ॥ २॥

॥ श्री शिव उवाच ॥

देवेशि दीर्घनयने दीक्षादीप्तकलेवरे ।
मां पृच्छसि वरारोहे न कस्यापि मयोदितम् ॥ ३॥
कथं वाच्यं हनुमतः कवचं कल्पपादपम् ।
स्रीरूपा त्वमिदं नानाकुटमण्डितविग्रहम् ॥ ४॥

गह्वरं गुरुगम्यं च यत्र कुत्र वदिष्यसि ।
तेन प्रत्युत पापानि जायन्ते गजगामिनि ॥ ५॥
अतएव महेशानि नो वाच्यं कवचं प्रिये ॥ ६॥

॥ श्री पार्वत्युवाच ॥

वदान्यस्य वचोनेदं नादेयं जगतीतले ।
स्वं वदान्यावधिः प्राणनाथो मे प्रियकृत्सदा ॥ ७॥
मह्यं च किं न दत्तं ते तदिदानीं वदाम्यहम ।
गणपं शाक्त सौरे च शैवं वैष्णवमुत्तमम् ॥ ८॥

मन्त्रयन्त्रादिजालं हि मह्यं सामान्यतस्त्वया ।
दत्तं विशेषतो यद्यत्तत्सर्वं कथयामि ते ॥ ९॥
श्रीराम तारको मन्त्रः कोदण्डस्यापि मे प्रियः ।
नृहरेः सामराजो हि कालिकाद्याः प्रियंवद ॥ १०॥

दशाविद्याविशेषेण षोडशीमन्त्रनायिकाः ।
दक्षिणामूर्तिसंज्ञोऽन्यो मन्त्रराजो धरापते ॥ ११॥
सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये हनूमतः ।
ये ते ह्यदेया देवेश तेऽपि मह्यं समर्पिताः ॥ १२॥

किं बहूक्तेन गिरिश प्रेमयान्त्रितचेतसा ।
अर्धाङ्गमपि मह्यं ते दत्तं किं ते वदाम्यहम् ।
स्त्रीरूपं मम जीवेश पूर्वं तु न विचारितम् ॥ १३॥

॥ श्री शिव उवाच ॥

सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव ।
परं तु गिरिजे तुभ्यं कथ्यते श्रुणु साम्प्रतम् ॥ १४॥
कलौ पाखण्डबहुला नानावेषधरा नराः ।
ज्ञानहीना लुब्धकाश्च वर्णाश्रमबहिष्कृताः ॥ १५॥

वैष्णवत्वेन विख्याताः शैवत्वेन वरानन ।
शाक्तत्वेन च देवेशि सौरत्वेनेतरे जनाः ॥ १६॥
गाणपत्वेन गिरिजे शास्त्रज्ञानबहिष्कृताः ।
गुरुत्वेन समाख्याता विचरिष्यन्ति भूतले ॥ १७॥

ते शिष्यसङ्ग्रहं कर्तुमुद्युक्ता यत्र कुत्राचित् ।
मन्त्राद्युच्चारणे तेषां नास्ति सामर्थ्यमम्बिके ॥ १८॥
तच्छिष्याणां च गिरिजे तथापि जगतीतले ।
पठन्ति पाठयिष्यति विप्रद्वेषपराः सदा ॥ १९॥

द्विजद्वेषपराणां हि नरके पतनं धुवम् ।
प्रकृतं वच्मि गिरिजे यन्मया पूर्वमीरितम् ॥ २०॥
नानारूपमिदं नानाकूटमण्डितविग्रहम् ।
तत्रोत्तरं महेशाने शृणु यत्नेन साम्प्रतम् ॥ २१॥

तुभ्यं मया यदा देवि वक्तव्यं कवचं शुभम् ।
नानाकूटमयं पश्चात्त्वयाऽपि प्रेमतः प्रियम् ॥ २२॥
वक्तव्यं कत्रचित्तत्तु भुवने विचरिष्यति ।
विश्वान्तःपातिनां भद्रे यदि पुण्यवतां सताम् ॥ २३॥

सत्सम्प्रदायशुद्धानां दीक्षामन्त्रवतां प्रिये ।
ब्राह्मणाः क्षत्रिया वैश्या विशेषेण वरानने ॥ २४॥
उचारणे समर्थानां शास्त्रनिष्ठावतां सदा ।
हस्तागतं भवेद्भद्रे तदा ते पुण्यमुत्तमम् ॥ २५॥

अन्यथा शूद्रजातीनां पूर्वोक्तानां महेश्वरि ।
मुखशुद्धिविहीनानां दाम्भिकानां सुरेश्वरि ॥ २६॥
यदा हस्तगतं तत्स्यात्तदा पापं महत्तव ।
तस्माद्विचार्यदेवेशि ह्यधिकारिणमम्बिके ॥ २७॥

वक्तव्यं नात्र सन्देहो ह्यन्यथा निरयं व्रजेत् ।
किं कर्तव्यं मया तुभ्यमुच्यते प्रेमतः प्रिये ।
त्वयापीदं विशेषेण गेपनीयं स्वयोनिवत् ॥ २८॥

ॐ श्री पञ्चवदनायाञ्जनेयाय नमः ।
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः ।
गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजम् ।
श्रीं शक्तिः । क्रौं कीलकम् । क्रूं कवचम् । क्रैं अस्त्राय फट् ।
इति दिग्बन्धः । श्री गरुड उवाच । अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वाङ्गसुन्दरि ।
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥

पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥

सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटैरूपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥

ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता ॥ १४॥

ॐ हरिमर्कटाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय
पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय
नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय
सकलविषहराय स्वाहा ।

ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय
सकलसम्पत्कराय स्वाहा ।

ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय
सकलजनवशङ्कराय स्वाहा ।

ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र
ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता ।
हनुमानिति बीजम् । वायुपुत्र इति शक्तिः ।
अञ्जनीसुत इति कीलकम् ।
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ॥

ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।

॥ इति करन्यासः ॥

ॐ अञ्जनीसुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा ।

॥ इति दिग्बन्धः ॥

॥ अथ ध्यानम् ॥

वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं
हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।

॥ अथ मन्त्रः ॥

ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुः
खनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय
कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लङ्घनाय
पिङ्गलनयनायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय
दृष्टिनिरालङ्कृताय सञ्जीविनी सञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टायमहाफाल्गुनसखाय सीतासहित-रामवरप्रदाय
षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।

ॐ हरिमर्कटमर्कटाय बम्बम्बम्बम्बं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फम्फम्फम्फम्फं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा ।
ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते
परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं
पम्फम्बम्भम्मं यंरंलंवं शंषंसंहंळङ्क्षं स्वाहा ।

॥ इति दिग्बन्धः ॥

ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मम्मम्मम्मम्मं सकलविषहराय स्वाहा ।
ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।
ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।

ॐ अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोक-
निवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय
ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा ।
भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह-
परयन्त्रपरतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते
श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा ।

इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥

षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥

॥ श्री पञ्चमुख हनुमत्कवचं सम्पूर्णम् ॥

 ॥ श्री सप्तमुखी हनुमत्कवचम् ॥॥ Shri Saptmukhi Hanuman Kavach ॥


॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्रीसप्तमुखीवीरहनुमत्कवच स्तोत्रमन्त्रस्य,
नारदऋषिः ,अनुष्टुप्छन्दः ,श्रीसप्तमुखीकपिः
परमात्मादेवता ,ह्रां बीजम् ,ह्रीं शक्तिः ,ह्रूं कीलकम्,
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुं ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।

॥ अथ ध्यानम् ॥

वन्देवानरसिंहसर्परिपुवाराहाश्वगोमानुषैर्युक्तं
सप्तमुखैः करैर्द्रुमगिरिं चक्रं गदां खेटकम् ।
खट्वाङ्गं हलमङ्कुशं फणिसुधाकुम्भौ शराब्जाभयान्
शूलं सप्तशिखं दधानममरैः सेव्यं कपिं कामदम् ॥

॥ ब्रह्मोवाच ॥

सप्तशीर्ष्णः प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
जप्त्वा हनुमतो नित्यं सर्वपापैः प्रमुच्यते ॥ १॥
सप्तस्वर्गपतिः पायाच्छिखां मे मारुतात्मजः ।
सप्तमूर्धा शिरोऽव्यान्मे सप्तार्चिर्भालदेशकम् ॥ २॥

त्रिःसप्तनेत्रो नेत्रेऽव्यात्सप्तस्वरगतिः श्रुती ।
नासां सप्तपदार्थोऽव्यान्मुखं सप्तमुखोऽवतु ॥ ३॥
सप्तजिह्वस्तु रसनां रदान्सप्तहयोऽवतु ।
सप्तच्छन्दो हरिः पातु कण्ठं बाहू गिरिस्थितः ॥ ४॥

करौ चतुर्दशकरो भूधरोऽव्यान्ममाङ्गुलीः ।
सप्तर्षिध्यातो हृदयमुदरं कुक्षिसागरः ॥ ५॥
सप्तद्वीपपतिश्चित्तं सप्तव्याहृतिरूपवान् ।
कटिं मे सप्तसंस्थार्थदायकः सक्थिनी मम ॥ ६॥

सप्तग्रहस्वरूपी मे जानुनी जङ्घयोस्तथा ।
सप्तधान्यप्रियः पादौ सप्तपातालधारकः ॥ ७॥
पशून्धनं च धान्यं च लक्ष्मीं लक्ष्मीप्रदोऽवतु ।
दारान् पुत्रांश्च कन्याश्च कुटुम्बं विश्वपालकः ॥ ८॥

अनुक्तस्थानमपि मे पायाद्वायुसुतः सदा ।
चौरेभ्यो व्यालदंष्ट्रिभ्यः श्रृङ्गिभ्यो भूतराक्षसात् ॥ ९॥
दैत्येभ्योऽप्यथ यक्षेभ्यो ब्रह्मराक्षसजाद्भयात् ।
दंष्ट्राकरालवदनो हनुमान् मां सदाऽवतु ॥ १०॥

परशस्त्रमन्त्रतन्त्रयन्त्राग्निजलविद्युतः ।
रुद्रांशः शत्रुसङ्ग्रामात्सर्वावस्थासु सर्वभृत् ॥ ११॥

ॐ नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते
सर्वशत्रुसंहारणाय ठंठंठंठंठंठंठं ॐ नमः स्वाहा ॥ १२॥

ॐ नमो भगवते सप्तवदनाय द्वीतीयनारसिंहास्याय अत्युग्रतेजोवपुषे
भीषणाय भयनाशनाय हंहंहंहंहंहंहं ॐ नमः स्वाहा ॥ १३॥

ॐ नमो भगवते सप्तवदनाय तृतीयगरुडवक्त्राय वज्रदंष्ट्राय महाबलाय
सर्वरोगविनाशाय मंमंमंमंमंमंमं ॐ नमः स्वाहा ॥ १४॥

ॐ नमो भगवते सप्तवदनाय चतुर्थक्रोडतुण्डाय सौमित्रिरक्षकाय
पुत्राद्यभिवृद्धिकराय लंलंलंलंलंलंलं ॐ नमः स्वाहा ॥ १५॥

ॐ नमो भगवते सप्तवदनाय पञ्चमाश्ववदनाय रुद्रमूर्तये
सर्ववशीकरणाय सर्वनिगमस्वरूपाय रुंरुंरुंरुंरुंरुंरुं ॐ नमः स्वाहा ॥ १६॥

ॐ नमो भगवते सप्तवदनाय षष्ठगोमुखाय सूर्यस्वरूपाय
सर्वरोगहराय मुक्तिदात्रे ॐॐॐॐॐॐॐ ॐ नमः स्वाहा ॥ १७॥

ॐ नमो भगवते सप्तवदनाय सप्तममानुषमुखाय
रुद्रावताराय-अञ्जनीसुताय सकलदिग्यशोविस्तारकाय
वज्रदेहाय सुग्रीवसाह्यकराय उदधिलङ्घनाय सीताशुद्धिकराय
लङ्कादहनाय अनेकराक्षसान्तकाय रामानन्ददाय-
कायअनेकपर्वतोत्पाटकाय सेतुबन्धकाय कपिसैन्यनायकाय
रावणान्तकाय ब्रह्मचर्याश्रमिणे कौपीनब्रह्मसूत्रधारकाय रामहृदयाय
सर्वदुष्टग्रहनिवारणाय शाकिनीडाकिनीवेतालब्रह्मराक्षसभैरवग्रह-
यक्षग्रहपिशाचग्रहब्रह्मग्रहक्षत्रियग्रहवैश्यग्रह-शूद्रग्रहान्त्यजग्रहम्लेच्छग्रह-
सर्पग्रहोच्चाटकाय मम सर्व कार्यसाधकाय सर्वशत्रुसंहारकाय
सिंहव्याघ्रादिदुष्टसत्वाकर्षकायै काहिकादिविविधज्वरच्छेदकाय
परयन्त्रमन्त्रतन्त्रनाशकाय सर्वव्याधिनिकृन्तकाय सर्पादि-
सर्वस्थावरजङ्गमविषस्तम्भनकराय सर्वराजभयचोरभयाऽ
ग्निभयप्रशमनायाऽऽध्यात्मिकाऽऽधि-दैविकाधिभौतिकतापत्रयनिवारणाय
सर्वविद्यासर्वसम्पत्सर्वपुरुषार्थ-दायकायाऽसाध्यकार्यसाधकाय
सर्ववरप्रदायसर्वाऽभीष्टकराय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ नमः स्वाहा ॥ १८॥

य इदं कवचं नित्यं सप्तास्यस्य हनुमतः ।
त्रिसन्ध्यं जपते नित्यं सर्वशत्रुविनाशनम् ॥ १९॥
पुत्रपौत्रप्रदं सर्वं सम्पद्राज्यप्रदं परम् ।
सर्वरोगहरं चाऽऽयुःकीर्त्तिदं पुण्यवर्धनम् ॥ २०॥

राजानं स वशं नीत्वा त्रैलोक्यविजयी भवेत् ।
इदं हि परमं गोप्यं देयं भक्तियुताय च ॥ २१॥
न देयं भक्तिहीनाय दत्वा स निरयं व्रजेत् ॥ २२॥

नामानिसर्वाण्यपवर्गदानि रूपाणि विश्वानि च यस्य सन्ति ।
कर्माणि देवैरपि दुर्घटानि तं मारुतिं सप्तमुखं प्रपद्ये॥ २३॥

॥ इति श्री सप्तमुखी हनुमत्कवचं सम्पूर्णम् ॥


॥ श्री एकादशमुख हनुमत्कवचम् ॥ –॥ Shri Ekadash Mukhi Hanumat Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ लोपामुद्रा उवाच ॥

कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् ।
यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ २॥

इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् ।
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ ३॥

॥ अगस्त्य उवाच ॥

नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।
ब्रह्मप्रोक्तं तु कवचं शृणु सुन्दरि सादरम् ॥ ४॥
सनन्दनाय सुमहच्चतुराननभाषितम् ।
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ ५॥

सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥ ६॥
हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः ।
प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ ७॥

छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥ ८॥
सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् ।
ॐ स्फ्रें-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥ ९॥

क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः ।
क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ १०॥
ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः ।
वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ ११॥

ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः ।
वं-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥ १२॥
ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।
ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ॥ १३॥

ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।
रं-बीजात्मा सदा पातु चोरू वार्धिलंघनः ॥ १४॥
सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।
पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ १५॥

आपादमस्तकं पातु रामदूतो महाबलः ।
पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ १६॥
दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।
वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥ १७॥

वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।
क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ॥ १८॥
ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।
रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ १९॥

इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।
एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ २०॥
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।
पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥ २१॥

स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥ २२॥
चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः ।
एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ २३॥

द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् ।
क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ २४॥
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।
यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ २५॥

ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥ २६॥
इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
संहृष्टचित्तापि तदा तदीयपादौ ननामातिमुदा स्वभर्तुः ॥ २७॥



॥ इति श्री एकादशमुख हनुमत्कवचम् सम्पूर्णम् ॥


Related Posts Plugin for WordPress, Blogger...