अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815
Showing posts with label Shiv Kavach. Show all posts
Showing posts with label Shiv Kavach. Show all posts

॥ श्री रुद्र कवचम् ॥ ॥ Shri Rudra Kavach ॥

॥ श्री रुद्र कवचम् ॥॥ Shri Rudra Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ अथ श्री रुद्रकवचम् ॥
ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य
दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता
ह्राम् बीजम्श्रीम् शक्तिः ह्रीम् कीलकम्- मम
मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः
ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥

॥ ध्यानम् ॥
शांतम् पद्मासनस्थम् शशिधरमकुटम्
पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम्
परशुमभयदम् दक्षभागे महन्तम् ।
नागम् पाशम् च घंटाम् प्रळय हुतवहम्
सांकुशम् वामभागे नानालंकारयुक्तम्
स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥

॥ दूर्वास उवाच ॥
प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् ।
एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् ।
रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये ।
अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥

रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा ।
शिरोमे ईश्वरः पातु ललाटम् नीललोहितः ।
नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः ।
कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः ॥

वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् ।
हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् ।
नाभिम् कटिम् च वक्षश्च पातु सर्वम् उमापतिः ॥

बाहुमध्यान्तरम् चैव सूक्ष्म रूपस्सदाशिवः ।
स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम्
वज्रम् च शक्तिदम् चैव पाशांकुशधरम् तथा ।
गण्डशूलधरान्नित्यम् रक्षतु त्रिदशेश्वरः ॥

प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे संध्यायाम्
राजभवने विरूपाक्षस्तु पातु माम् ।
शीतोष्णा दथकालेषु तुहिनद्रुमकंटके ।
निर्मनुष्ये समे मार्गे पाहि माम् वृषभध्वज ॥

इत्येतद्द्रुद्रकवचम् पवित्रम् पापनाशनम् ।
महादेव प्रसादेन दूर्वास मुनिकल्पितम् ।
ममाख्यातम् समासेन नभयम् तेनविद्यते ।
प्राप्नोति परम आरोग्यम् पुण्यमायुष्यवर्धनम् ॥

विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्याम् नभय विन्दते क्वचित् ।
अपुत्रो लभते पुत्रम् मोक्षार्थी मोक्ष माप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥

त्राहिमाम् पार्वतीनाथ त्राहिमाम् त्रिपुरंतकपाशम्
खट्वांग दिव्यास्त्रम् त्रिशूलम् रुद्रमेवच ।
नमस्करोमि देवेश त्राहिमाम् जगदीश्वर ।
शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥

गमनेगमने चैव त्राहिमाम् भक्तवत्सल ।
त्वम् चित्वमादितश्चैव त्वम् बुद्धिस्त्वम् परायणम् ।
कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा ।
सर्व ज्वर भयम् छिन्दि सर्व शत्रून्निवक्त्याय ॥

सर्व व्याधिनिवारणम् रुद्रलोकम् सगच्छति रुद्रलोकम् सगच्छत्योन्नमः ॥

॥ इति श्री रुद्र कवचम् सम्पूर्णम् ॥



॥ अमोघ शिव कवच ॥
॥ Amogh Shiv Kavach ॥

॥ ॐ गण गणपतये नमः ॥

॥ अथ विनियोग: ॥
अस्य श्री शिवकवच स्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः,
वृषभ ऋषिः,अनुष्टुप्छन्दः, श्री सदाशिवरुद्रो देवता,
ह्रीं शक्तिः,वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्,
श्री सदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥

॥ करन्यास ॥
ॐ नमो भगवते ज्वलज्वालामालिने ॐ ह्रां
सर्वशक्तिधाम्ने इशानात्मने अन्गुष्ठाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ नं रिं
नित्यतृप्तिधाम्ने तत्पुरुषातमने तर्जनीभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ मं रूं
अनादिशक्तिधाम्ने अधोरात्मने मध्यमाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ शिं रैं
स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ वां रौं
अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ यं र:
अनादिशक्तिधाम्ने सर्वात्मने करतल करपृष्ठाभ्याम नम: ।

॥ अंगन्यास ॥
ॐ नमो भगवते ज्वलज्वालामालिने ॐ ह्रां
सर्वशक्तिधाम्ने इशानात्मने हृदयाय नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ नं रिं
नित्यतृप्तिधाम्ने तत्पुरुषातमने शिरसे स्वाहा ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ मं रूं
अनादिशक्तिधाम्ने अधोरात्मने शिखायै वषट ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ शिं रैं
स्वतंत्रशक्तिधाम्ने वामदेवात्मने नेत्रत्रयाय वौषट ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ वां रौं
अलुप्तशक्तिधाम्ने सद्योजातात्मने कवचाय हुम ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ यं र:
अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट ।

॥ ध्यानम ॥
वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ।
सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम् ॥

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥

॥ श्री शिव कवचम ॥
सकल-तत्त्वात्मकाय, आनन्द-सन्दोहाय, सर्व-मन्त्र-स्वरूपाय,
सर्व-यंत्राधिष्ठिताय, सर्व-तंत्र-प्रेरकाय,सर्व-तत्त्व-विदूराय,
सर्-तत्त्वाधिष्ठिताय, ब्रह्म-रुद्रावतारिणे,नील-कण्ठाय,
पार्वती-मनोहर-प्रियाय, महा-रुद्राय, सोम-सूर्याग्नि-लोचनाय,
भस्मोद्-धूलित-विग्रहाय, अष्ट-गन्धादि-गन्धोप-शोभिताय,
शेषाधिप-मुकुट-भूषिताय, महा-मणि-मुकुट-धारणाय,
सर्पालंकाराय, माणिक्य-भूषणाय, सृष्टि-स्थिति-प्रलय-
काल-रौद्रावताराय, दक्षाध्वर-ध्वंसकाय, महा-काल-भेदनाय,
महा-कालाधि-कालोग्र-रुपाय, मूलाधारैक-निलयाय ।

तत्त्वातीताय, गंगा-धराय, महा-प्रपात-विष-भेदनाय,
महा-प्रलयान्त-नृत्याधिष्ठिताय, सर्व-देवाधि-देवाय,
षडाश्रयाय, सकल-वेदान्त-साराय, त्रि-वर्ग-साधनायानन्त-
कोटि-ब्रह्माण्ड-नायकायानन्त-वासुकि-तक्षक-कर्कोट-शङ्ख-
कुलिक-पद्म-महा-पद्मेत्यष्ट-महा-नाग-कुल-भूषणाय, प्रणव-
स्वरूपाय । ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः, हां हीं हूं हैं हौं हः ।

चिदाकाशायाकाश-दिक्स्वरूपाय, ग्रह-नक्षत्रादि-सर्व-प्रपञ्च-
मालिने, सकलाय, कलङ्क-रहिताय, सकल-लोकैक-कर्त्रे,
सकल-लोकैक-भर्त्रे, सकल-लोकैक-संहर्त्रे, सकल-लोकैक-
गुरवे, सकल-लोकैक-साक्षिणे, सकल-निगम-गुह्याय,
सकल-वेदान्त-पारगाय, सकल-लोकैक-वर-प्रदाय,
सकल-लोकैक-सर्वदाय, शर्मदाय, सकल-लोकैक-शंकराय ।

शशाङ्क-शेखराय, शाश्वत-निजावासाय, निराभासाय,निराभयाय,
निर्मलाय, निर्लोभाय, निर्मदाय, निश्चिन्ताय, निरहङ्काराय,
निरंकुशाय, निष्कलंकाय, निर्गुणाय,निष्कामाय, निरुपप्लवाय,
निरवद्याय, निरन्तराय, निष्कारणाय, निरातङ्काय, निष्प्रपंचाय,
निःसङ्गाय,निर्द्वन्द्वाय, निराधाराय, नीरागाय, निष्क्रोधाय, निर्मलाय,
निष्पापाय, निर्भयाय, निर्विकल्पाय, निर्भेदाय, निष्क्रियाय,निस्तुलाय,
निःसंशयाय, निरञ्जनाय, निरुपम-विभवाय, नित्य-शुद्ध-बुद्धि-परिपूर्ण-
सच्चिदानन्दाद्वयाय, ॐ हसौं ॐहसौः ह्रीम सौं क्षमलक्लीं क्षमलइस्फ्रिं
ऐंक्लीं सौः क्षां क्षीं क्षूं क्षैं क्षौं क्षः ।

परम-शान्त-स्वरूपाय, सोहं-तेजोरूपाय, हंस-तेजोमयाय,सच्चिदेकं ब्रह्म
महा-मन्त्र-स्वरुपाय, श्रीं ह्रीं क्लीं नमो भगवते विश्व-गुरवे, स्मरण-मात्र-
सन्तुष्टाय, महा-ज्ञान-प्रदाय, सच्चिदानन्दात्मने महा-योगिने सर्व-काम-
फल-प्रदाय, भव-बन्ध-प्रमोचनाय,क्रों सकल-विभूतिदाय, क्रीं सर्व-विश्वाकर्षणाय ।

जय जय रुद्र, महा-रौद्र, वीर-भद्रावतार, महा-भैरव, काल-भैरव, कल्पान्त-
भैरव, कपाल-माला-धर, खट्वाङ्ग-खङ्ग-चर्म-पाशाङ्कुश-डमरु-शूल-चाप-
बाण-गदा-शक्ति-भिन्दिपाल-तोमर-मुसल-मुद्-गर-पाश-परिघ-भुशुण्डी-
शतघ्नी-ब्रह्मास्त्र-पाशुपतास्त्रादि-महास्त्र-चक्रायुधाय ।

भीषण-कर-सहस्र-मुख-दंष्ट्रा-कराल-वदन-विकटाट्ट-हास-विस्फारित
ब्रह्माण्ड-मंडल नागेन्द्र-कुण्डल नागेन्द्र-हार,नागेन्द्र-वलय नागेन्द्र-चर्म-
धर मृत्युञ्जय त्र्यम्बक, त्रिपुरान्तक विश्व-रूप विरूपाक्ष विश्वम्भर विश्वेश्वर
वृषभ-वाहन वृष-विभूषण, विश्वतोमुख, सर्वतो रक्ष रक्ष,ज्वल ज्वल प्रज्वल
प्रज्वल स्फुर स्फुर आवेशय आवेशय, ममहृदये प्रवेशय प्रवेशय, प्रस्फुर प्रस्फुर ।

महा-मृत्युमप-मृत्यु-भयं नाशय-नाशय, चोर-भय-मुत्सादयोत्सादय, विष-सर्प-
भयं शमय शमय, चोरान् मारय मारय, मम शत्रुनुच्चाट्योच्चाटय, मम क्रोधादि-
सर्व-सूक्ष्म-तमात् स्थूल-तम-पर्यन्त-स्थितान् शत्रूनुच्चाटय, त्रिशूलेनविदारय
विदारय, कुठारेण भिन्धि भिन्धि, खड्गेन छिन्धि छिन्धि, खट्वांगेन विपोथय
विपोथय, मुसलेन निष्पेषयनिष्पेषय, वाणैः सन्ताडय सन्ताडय,रक्षांसि भीषय
भीषय,अशेष-भूतानि विद्रावय विद्रावय, कूष्माण्ड-वेताल-मारीच-गण-ब्रह्म-राक्षस-
गणान् संत्रासय संत्रासय, सर्व-रोगादि-महा-भयान्ममाभयं कुरु कुरु, वित्रस्तं
मामाश्वासयाश्वासय, नरक-महा-भयान्मामुद्धरोद्धर, सञ्जीवय सञ्जीवय,
क्षुत्-तृषा-ईर्ष्यादि-विकारेभ्यो मामाप्याययाप्यायय
दुःखातुरंमामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय ।

मृत्युञ्जय त्र्यंबक सदाशिव ! नमस्ते नमस्ते, शं ह्रीं ॐ ह्रों ।

ॐ ॥ इति अमोघ शिव कवचं सम्पूर्णम् ॥ ॐ

॥ ब्रह्माण्डविजय श्री शिव कवचम् ॥
॥ Brahmaand Vijayee Shri Shiv Kavach ॥

॥ ॐ गण गणपतये नमः ॥

॥ नारद उवाच ॥
शिवस्य कवचं ब्रूहि मत्स्य राजेन यद्धृतम् ।
नारायण महाभाग श्रोतुं कौतूहलं मम ॥ १॥

॥ श्रीनारायण उवाच ॥
कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः ।
ब्रह्माण्ड विजयं नाम सर्वाऽवयव रक्षणम् ॥ २॥
पुरा दुर्वाससा दत्तं मत्स्यस्य राजाय धीमते ।
दत्वा षडक्षरं मन्त्रं सर्व पाप प्रणाशनम् ॥ ३॥

स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् ।
अस्त्रेशस्त्रेजलेवह्नौ सिद्धिश्चेन्नास्ति संशयः ॥ ४॥
यद्धृत्वा पठनात् बाणः शिवत्वं प्रापलीलया ।
बभूव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ॥ ५॥

वीरश्रेष्ठो वीरभद्रो साम्बोऽभूद् धारणाद्यतः ।
त्रैलोक्य विजयी राजा हिरण्यकशिपुः स्वयम् ॥ ६॥
हिरण्याक्षश्च विजयी चाऽभवद् धारणाद्धि सः ।
यद्धृत्वा पठनात् सिद्धो दुर्वासा विश्व पूजितः ॥ ७॥

जैगीषव्यो महायोगी पठनाद् धारणाद्यतः ।
यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ॥ ८॥
अगस्त्यश्च पुलस्त्यश्चाऽभवत् विश्वपूजितः ॥ ९॥

॥ श्री शिव कवचम् ॥
ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु ।
ॐ नमः शिवायेति च स्वाहा भालं सदाऽवतु ॥ १॥
ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु ।
ॐ ह्रीं क्लीं हूं शिवायेति नमो मे पातु नासिकाम् ॥ २॥

ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु ।
ॐ ह्रीं श्रीं हूं संसार कर्त्रे स्वाहा कर्णौ सदावतु ॥ ३॥
ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदावतु ।
ॐ ह्रीं महेशाय स्वाहा चाऽधरं पातु मे सदा ॥ ४॥

ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान् सदाऽवतु ।
ॐ ह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु ॥ ५॥
ॐ ह्रीं श्रीं क्लीं मे रुद्राय स्वाहा नाभिं सदाऽवतु ।
ॐ ह्रीं ऐं श्रीं श्रीं ईश्वराय स्वाहा पृष्ठं सदाऽवतु ॥ ६॥

ॐ ह्रीं क्लीं मृतुञ्जयाय स्वाहा भ्रुवौ सदाऽवतु ।
ॐ ह्रीं श्रीं क्लीं ईशानाय स्वाहा पार्श्वं सदाऽवतु ॥ ७॥
ॐ ह्रीं ईश्वराय स्वाहा चोदरं पातु मे सदा ।
ॐ श्रीं ह्रीं मृत्युञ्जयाय स्वाहा बाहू सदाऽवतु ॥ ८॥

ॐ ह्रीं श्रीं क्लीं ईश्वराय स्वाहा पातु करौ मम ।
ॐ महेश्वराय रुद्राय नितम्बं पातु मे सदा ॥ ९॥
ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु ।
ॐ सर्वेश्वराय शर्वाय स्वाहा पादौ सदाऽवतु ॥ १०॥

प्राच्यां मां पातु भूतेशः आग्नेय्यां पातु शङ्करः ।
दक्षिणे पातु मां रुद्रो नैॠत्यां स्थाणुरेव च ॥ ११॥
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः ।
उत्तरे गिरिशः पातु चैशान्यां ईश्वरः स्वयम् ॥ १२॥

ऊर्ध्वे मृडः सदा पातु चाऽधो मृत्युञ्जयः स्वयम् ।
जले स्थले चाऽन्तरिक्षे स्वप्ने जागरणे सदा ॥ १३॥
पिनाकी पातु मां प्रीत्या भक्तं वै भक्तवत्सलः ॥ १४॥

॥ फलश्रुतिः ॥
इति ते कथितं वत्स कवचं परमाऽद्भुतम् ॥ १५॥

दश लक्ष जपेनैव सिद्धिर्भवति निश्चितम् ।
यदि स्यात् सिद्ध कवचो रुद्र तुल्यो भवेद् ध्रुवम् ॥ १६॥
तव स्नेहान् मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ।
कवचं काण्व शाखोक्तं अतिगोप्यं सुदुर्लभम् ॥ १७॥

अश्वमेध सहस्राणि राजसूय शतानि च ।
सर्वाणि कवचस्यास्य फलं नार्हन्ति षोडशीम् ॥ १८॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
सर्वज्ञः सर्वसिद्धेशो मनोयायी भवेद् ध्रुवम् ॥ १९॥

इदं कवचं अज्ञात्वा भवेत् यः शङ्करप्रभुम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ २०॥

॥ इति श्री ब्रह्माण्डविजय शिव कवचम् सम्पूर्णम् ॥

Related Posts Plugin for WordPress, Blogger...