अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815

श्री षोडश बाहु नरसिम्हा अष्टकम (Shree Shodash bahu narasimha ashtakam)

 श्री षोडश बाहु नृसिंह अष्टकम || Sri Shodasha Bahu Narasimha Ashtakam

श्री षोडश बाहु नृसिंह अष्टकम श्रीविजयीन्द्रयति कृतं द्वारा रचियत हैं ! 



श्री षोडश बाहु नृसिंह अष्टकम || Sri Shodasha Bahu Narasimha Ashtakam


॥ श्रीषोडशबाहुनृसिंहाष्टकम् ॥

भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं,

डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः ।


तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः, एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ १॥


भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलद्ज्वालमालं, खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयन्तं ।


भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं,


स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ २॥


एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो,


हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।


दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो, निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ ३॥


शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं, बिभ्रन्तं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रं ।


ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं,

वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ ४॥


पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं,

नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः ।


दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं, वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ ५॥


नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं,

रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रं ।

गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं, वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ ६॥


के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा,

देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।


शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन,

ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ ७॥


झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं, हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारं ।

वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं,

लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ ८॥


भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना,

चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयं ।

सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः,

प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ ९॥


॥ इति श्रीविजयीन्द्रयतिकृतं श्रीषोडशबाहुनृसिंहाष्टकं सम्पूर्णं ॥


No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...