अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815

brahmand vijay kavach ब्रह्माण्ड विजय कवच

 ब्रह्माण्ड विजय कवच Brahmand Vijay Kavach

ब्रह्माण्डविजयं नाम दुर्गाकवचम् 

ब्रह्माण्ड विजय कवच , श्री कृष्ण द्वारा ब्रह्मा व रुद्र को दिया गया 

नारायण उवाच
 श्रृणु नारद वक्ष्यामि दुर्गायाः कवचं शुभम् । श्रीकृष्णेनैव यद् दत्तं गोलोके ब्रह्मणे पुरा ।।१ ब्रह्मा त्रिपुर-संग्रामे शंकराय ददौ पुरा । जघान त्रिपुरं रुद्रो यद् धृत्वा भक्तिपूर्वकम् ।।२ हरो ददौ गौतमाय पद्माक्षाय च गौतमः । यतो बभूव पद्माक्षः सप्तद्वीपेश्वरो जयी ।।३ यद् धृत्वा पठनाद् ब्रह्मा ज्ञानवाञ्छक्तिमान् भुवि । शिवो बभूव सर्वज्ञो योगिनां च गुरुर्यतः ।। शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः ।।४ ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री देवी दुर्गतिनाशिनी ।।५ ब्रह्माण्डविजये चैव विनियोगः प्रकीर्तितः । पुण्यतीर्थ च महतां कवचं परमाद्भुतम् ।।६ ॐ ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम् । ॐ ह्रीं मे पातु कपालं च ॐ ह्रीं श्रीमिति लोचने ।।७ पातु मे कर्णयुग्मं च ॐ दुर्गायै नमः सदा । ॐ ह्रीं श्रीमिति नासां मे सदा पातु च सर्वतः ।।८ ह्रीं श्रीं ह्रूमिति दन्तानि पातु क्लीमोष्ठयुग्मकम् । क्रीं क्रीं क्रीं पातु कण्ठं च दुर्गे रक्षतु गण्डकम् ।।९ स्कन्धं दुर्गविनाशिन्यै स्वाहा पातु निरन्तरम् । वक्षो विपद्विनाशिन्यै स्वाहा मे पातु सर्वतः ।।१० दुर्गे दुर्गे रक्षिणीति स्वाहा नाभिं सदावतु । दुर्गे दुर्गे रक्ष रक्ष पृष्ठं मे पातु सर्वतः ।।११ ॐ ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदावतु । ॐ ह्रीं दुर्गायै स्वाहा च सर्वांगं मे सदावतु ।।१२ प्राच्यां पातु महामाया आग्नेय्यां पातु कालिका । दक्षिणे दक्षकन्या च नैऋत्यां शिवसुन्दरी ।।१३ पश्चिमे पार्वती पातु वाराही वारुणे सदा । कुबेरमाता कौबेर्यामैशान्यामीश्वरी सदा ।।१४ ऊर्ध्वे नारायणी पातु अम्बिकाधः सदावतु । ज्ञाने ज्ञानप्रदा पातु स्वप्ने निद्रा सदावतु ।।१५ इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । ब्रह्माण्डविजयं नाम कवचं परमाद्भुतम् ।।१६ सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत् फलम् । सर्वव्रतोपवासे च तत् फलं लभते नरः ।।१७ गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः । कण्ठे वा दक्षिणे बाहौ कवचं धारयेत्तु यः ।।१८ स व त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः । इदं कवचमज्ञात्वा भजेद् दुर्गतिनाशिनीम् ।।१९ शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।।२० कवचं काण्वशाखोक्तमुक्तं नारद सुन्दरम् । यस्मै कस्मै न दातव्यं गोपनीयं सुदुर्लभम् ।।२१ ।। इति श्रीब्रह्म-वैवर्ते ब्रह्माण्ड-विजयं नाम दुर्गा-कवचं सम्पूर्णम्।। (गणपतिखण्ड। ३९। ३-२३)

No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...