अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815

॥ श्री नारायण कवचम् ॥ ॥ Shri Narayan Kavach ॥

॥ श्री नारायण कवचम् ॥॥ Shri Narayan Kavach ॥

॥ ॐ गण गणपतये नमः ॥
। ॐ नमो नारायणाय ।

॥ अङ्गन्यासः ॥
ॐ ॐ नमः पादयोः-
तर्जनी-अङ्गुष्ठ से दोनों पैरों का स्पर्श करें ।

ॐ नं नमः जानुनोः-
अङ्गुष्ठ से दोनों घुटनों का स्पर्श करें ।

ॐ मों नमः ऊर्वोः-
तर्जनी अङ्गुष्ठ से दोनों पैरों की जाँघ का स्पर्श करें ।

ॐ नां नमः उदरे –
तर्जनी – अङ्गुष्ठ से पेट का स्पर्श करें ।

ॐ रां नमः हृदि –
मध्यमा-अनामिका-तर्जनी से हृदय का स्पर्श करें ।

ॐ यं नमः उरसि –
मध्यमा- अनामिका-तर्जनी से छाती का स्पर्श करें ।

ॐ णां नमः मुखे –
तर्जनी – अँगुठे के अंयोग से मुख का स्पर्श करें ।

ॐ यं नमः शिरसि –
तर्जनी -मध्यमा के संयोग से सिर का स्पर्श करें ॥

॥ करन्यासः ॥
ॐ ॐ नमः दक्षिणतर्जन्याम् –
दाएं अँगुठे – तर्जनी के ऊपर वाले सिरे का स्पर्श करें ।

ॐ नं नमः दक्षिणमध्यमायाम् –
अँगुठे – मध्यमा का ऊपर वाला पोर स्पर्श करें ।

ॐ मों नमः दक्षिणानामिकायाम् –
अँगुठे से अनामिका का ऊपरवाला पोर स्पर्श करें ।

ॐ भं नमः दक्षिणकनिष्ठिकायाम् –
अँगुठे से कनिष्ठिका का ऊपर वाला पोर स्पर्श करें ।

ॐ गं नमः वामकनिष्ठिकायाम् –
बाँये अँगुठे से कनिष्ठिका का ऊपर वाला पोर स्पर्श करें ।

ॐ वं नमः वामानामिकायाम् –
अँगुठे से अनामिका का ऊपरवाला पोर स्पर्श करें ।

ॐ तें नमः वाममध्यमायाम् –
अँगुठे से मध्यमा का ऊपरवाला पोर स्पर्श करें ।

ॐ वां नमः वामतर्जन्याम् –
अँगुठे से तर्जनी का ऊपरवाला पोर स्पर्श करें ।

ॐ सुं नमः दक्षिणांगुष्ठोर्ध्वपर्वणि –
दाहिनी चारों अँगुलियों से अँगुठे का ऊपरवाला पोर स्पर्श करें ।

ॐ दें नमः दक्षिणांगुष्ठाय पर्वणि –
दाहिनी चारों अँगुलियों से अँगुठे का नीचे वाला पोर स्पर्श करें ।

ॐ वां नमः वामांगुष्ठोर्ध्वपर्वणि –
बाँये हाथ की चारों अँगुलियों से अँगुठे के ऊपरवाला पोर स्पर्श करें ।

ॐ यं नमः वामांगुष्ठाय पर्वणि –
बाँये हाथ की चारों अँगुलियों सेअँगुठे का नीचे वाला पोर स्पर्श करें ॥

॥ विष्णुषडक्षरन्यासः ॥
ॐ ॐ नमः हृदये –
तर्जनी, मध्यमा एवं अनामिका से हृदय का स्पर्श करें ।

ॐ विं नमः मूर्धनि –
तर्जनी, मध्यमा के संयोग सिर का स्पर्श करें ।

ॐ षं नमः भ्रुवोर्मध्ये –
तर्जनी, मध्यमा से दोनों भौंहों का स्पर्श करें ।

ॐ णं नमः शिखायाम् –
अँगुठे से सिखा का स्पर्श करें ।

ॐ वें नमः नेत्रयोः –
तर्जनी, मध्यमा से दोनों नेत्रों का स्पर्श करें ।

ॐ नं नमः सर्वसन्धिषु –
तर्जनी, मध्यमा और अनामिका से शरीर के सभी जोड़ों को स्पर्श करें ।

ॐ मः अस्त्राय फट् प्राच्याम् –
पूर्व की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् आग्नेय्याम् –
अग्निकोण में चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् दक्षिणस्याम् –
दक्षिण की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् नैऋत्ये –
नैऋत्य कोण में चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् प्रतीच्याम् –
पश्चिम की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् वायव्ये –
वायुकोण में चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् उदीच्याम् –
उत्तर की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् ऐशान्याम् –
ईशानकोण में चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् ऊर्ध्वायाम् –
ऊपर की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् अधरायाम् –
नीचे की ओर चुटकी बजाएँ ॥

॥ अथ श्री नारायण कवचम् ॥

॥ राजोवाच ॥
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥

॥ श्री शुक उवाच ॥
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३॥

॥ विश्वरूप उवाच ॥
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥

नारायणमयं वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥

मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥

न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १०॥

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥

ॐ हरिर्विदध्यान्मम सर्वरक्षांन्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप-पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥

जलेषु मां रक्षतु मत्स्यमूर्ति-र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः।
विमुञ्चतो यस्य महाट्टहासंदिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥

मामुग्रधर्मादखिलात्प्रमादा-न्नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥

सनत्कुमारोऽवतु कामदेवा-द्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥

धन्वन्तरिर्भगवान्पात्वपथ्या-द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताञ्जनान्ता-द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥

द्वैपायनो भगवानप्रबोधा-द्बुद्धस्तु पाखण्डगणप्रमादात् ।
कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ १९॥

मां केशवो गदया प्रातरव्या-द्गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्ति-र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥

देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥

श्रीवत्सधामापररात्र ईशःप्रत्युष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥

चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २३॥

गदेऽशनिस्पर्शनविस्फुलिङ्ग निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो-भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥

त्वं यातुधानप्रमथप्रेतमातृ-पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेहृदयानि कम्पयन् ॥ २५॥

त्वं तिग्मधारासिवरारिसैन्य-मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य वा ॥ २७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥

विदिक्षु दिक्षूर्ध्वमधः समन्ता-दन्तर्बहिर्भगवान्नारसिंहः ।
प्रहापयंॅलोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७॥

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धामस्वमन्वगात् ॥ ४०॥

॥ श्री शुक उवाच ॥
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥

॥ इति श्री नारायण कवचं सम्पूर्णम् ॥



No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...