अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815

कवच संग्रह-Kavach Sangraha

कवच संग्रह-Kavach Sangrah

॥ श्री गणपति कवचम् ॥
॥ Shri Ganpati Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ गौर्युवाच ॥
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥

॥ मुनिरुवाच ॥
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये
युगेत्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्तुर्ये
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३॥

विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४॥
ललाटं कश्यपः पातु भृयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५॥

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ ७॥

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९॥

गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १०॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥१३॥

दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४॥
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५॥

राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ १६॥
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् ।
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७॥

सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु ॥ १८॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १८॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् ।
मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि ॥ २१॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।
तत्तत्फलवाप्नोति साधको नात्रसंशयः ॥२२॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् ॥ २३॥

राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४॥
इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ २५॥

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६॥
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७॥



॥ इति श्री गणेश कवचं सम्पूर्णम् ॥





॥ एकाक्षर गणपति कवचम् ॥
॥ Ekakshar Ganpati Kavach ॥


॥ ॐ गण गणपतये नमः ॥

नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।
कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥

॥ पार्वत्युवाच॥
भगवन् देवदेवेश लोकानुग्रहकारकः ।
इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥
एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा ।
वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥

॥ ईश्वर उवाच ॥
श्रृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् ।
एकाक्षरस्य मन्त्रस्य कवचं सर्वकामदम् ॥ ४॥
यस्य स्मरणमात्रेण न विघ्नाः प्रभवन्ति हि ।
त्रिकालमेककालं वा ये पठन्ति सदा नराः ॥ ५॥

तेषां क्वापि भयं नास्ति सङ्ग्रामे सङ्कटे गिरौ ।
भूतवेतालरक्षोभिर्ग्रहैश्चापि न बाध्यते ॥ ६॥
इदं कवचमज्ञात्वा यो जपेद् गणनायकम् ।
न च सिद्धिमाप्नोति मूढो वर्षशतैरपि ॥ ७॥

अघोरो मे यथा मन्त्रो मन्त्राणामुत्तमोत्तमः ।
तथेदं कवचं देवि दुर्लभं भुवि मानवैः ॥ ८॥
गोपनीयं प्रयत्नेन नाज्येयं यस्य कस्यचित् ।
तव प्रीत्या महेशानि कवचं कथ्यतेऽद्भुतम् ॥ ९॥

एकाक्षरस्य मन्त्रस्य गणकश्चर्षिरीरितः ।
त्रिष्टुप् छन्दस्तु विघ्नेशो देवता परिकीर्तिता ॥ १०॥
गँ बीजं शक्तिरोङ्कारः सर्वकामार्थसिद्धये ।
सर्वविघ्नविनाशाय विनियोगस्तु कीर्तितः ॥ ११॥

॥ ध्यानम् ॥
रक्ताम्भोजस्वरूपं लसदरुणसरोजाधिरूढं त्रिनेत्रं
पाशंचैवाङ्कुशं वा वरदमभयदं बाहुभिर्धारयन्तम् ।
शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतं
देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥ १२॥

॥ कवचम् ॥
गणेशो मे शिरः पातु भालं पातु गजाननः ।
नेत्रे गणपतिः पातु गजकर्णः श्रुती मम ॥ १३॥
कपोलौ गणनाथस्तु घ्राणं गन्धर्वपूजितः ।
मुखं मे सुमुखः पातु चिबुकं गिरिजासुतः ॥ १४॥

जिह्वां पातु गणक्रीडो दन्तान् रक्षतु दुर्मुखः ।
वाचं विनायकः पातु कष्टं पातु महोत्कटः ॥ १५॥
स्कन्धौ पातु गजस्कन्धो बाहू मे विघ्ननाशनः ।
हस्तौ रक्षतु हेरम्बो वक्षः पातु महाबलः ॥ १६॥

हृदयं मे गणपतिरुदरं मे महोदरः ।
नाभि गम्भीरहृदयः पृष्ठं पातु सुरप्रियः ॥ १७॥
कटिं मे विकटः पातु गुह्यं मे गुहपूजितः ।
ऊरु मे पातु कौमारं जानुनी च गणाधिपः ॥ १८॥

जङ्घे गजप्रदः पातु गुल्फौ मे धूर्जटिप्रियः ।
चरणौ दुर्जयः पातुर्साङ्गं गणनायकः ॥ १९॥
आमोदो मेऽग्रतः पातु प्रमोदः पातु पृष्ठतः ।
दक्षिणे पातु सिद्धिशो वामे विघ्नधरार्चितः ॥ २०॥

प्राच्यां रक्षतु मां नित्यं चिन्तामणिविनायकः ।
आग्नेयां वक्रतुण्डो मे दक्षिणस्यामुमासुतः ॥ २१॥
नैऋत्यां सर्वविघ्नेशः पातु नित्यं गणेश्वरः ।
प्रतीच्यां सिद्धिदः पातु वायव्यां गजकर्णकः ॥ २२॥

कौबेर्यां सर्वसिद्धिशः ईशान्यामीशनन्दनः ।
ऊर्ध्वं विनायकः पातु अधो मूषकवाहनः ॥ २३॥
दिवा गोक्षीरधवलः पातु नित्यं गजाननः ।
रात्रौ पातु गणक्रीडः सन्ध्योः सुरवन्दितः ॥ २४॥

पाशाङ्कुशाभयकरः सर्वतः पातु मां सदा ।
ग्रहभूतपिशाचेभ्यः पातु नित्यं गजाननः ॥ २५॥
सत्वं रजस्तमो वाचं बुद्धिं ज्ञानं स्मृतिं दयाम् ।
धर्मचतुर्विधं लक्ष्मीं लज्जां कीर्तिं कुलं वपुः ॥ २६॥

धनं धान्यं गृहं दारान् पौत्रान् सखींस्तथा ।
एकदन्तोऽवतु श्रीमान् सर्वतः शङ्करात्मजः ॥ २७॥
सिद्धिदं कीर्तिदं देवि प्रपठेन्नियतः शुचिः ।
एककालं द्विकालं वापि भक्तिमान् ॥ २८॥

न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ।
सर्वपापविनिर्मुक्तो जायते भुवि मानवः ॥ २९॥
यं यं कामयते नित्यं सुदुर्लभमनोरथम् ।
तं तं प्राप्नोति सकलं षण्मासान्नात्र संशयः ॥ ३०॥

मोहनस्तम्भनाकर्षमारणोच्चाटनं वशम् ।
स्मरणादेव जायन्ते नात्र कार्या विचारणा ॥ ३१॥
सर्वविघ्नहरं देवं ग्रहपीडानिवारणम् ।
सर्वशत्रुक्षयकरं सर्वापत्तिनिवारणम् ॥ ३२॥

धृत्वेदं कवचं देवि यो जपेन्मन्त्रमुत्तमम् ।
न वाच्यते स विघ्नौघैः कदाचिदपि कुत्रचित् ॥ ३३॥
भूर्जे लिखित्वा विधिवद्धारयेद्यो नरः शुचिः ।
एकबाहो शिरः कण्ठे पूजयित्वा गणाधिपम् ॥ ३४॥

एकाक्षरस्य मन्त्रस्य कवचं देवि दुर्लभम् ।
यो धारयेन्महेशानि न विघ्नैरभिभूयते ॥ ३५॥
गणेशहृदयं नाम कवचं सर्वसिद्धिदम् ।
पठेद्वा पाठयेद्वापि तस्य सिद्धिः करे स्थिता ॥ ३६॥

न प्रकाश्यं महेशानि कवचं यत्र कुत्रचित् ।
दातव्यं भक्तियुक्ताय गुरुदेवपराय च ॥ ३७॥



॥ इति श्री एकाक्षर गणपति कवचं सम्पूर्णम् ॥






॥ श्री गुरु कवचम् ॥
॥ Shri Guru Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ श्रीईश्वर उवाच ॥
श्रृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥ १॥
अद्य प्रभृति कस्यापि न ख्यातं कवचं मया ।
देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥ २॥

न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः ।
गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः ।
वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः ॥ ३॥

गुरुपादं पुरस्कृत्य प्राप्यते कवचं शुभम् ।
तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति तत्क्षणात् ।
सुगोप्यं तु प्रजप्तव्यं न वक्तव्यं वरानने ॥ ४॥

॥ विनियोगः ॥
ॐ नमोऽस्य श्रीगुरुकवचनाममन्त्रस्य परमब्रह्म ऋषिः
सर्ववेदानुज्ञो देवदेवो श्री आदिशिवः देवता नमो हसौं हंसः
ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजंस-ह-क्ष-म-ल-व-र-यीं
शक्तिः हंसः सोऽहं कीलकं समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगः ।

॥ ऋष्यादिन्यासः ॥
श्रीपरमब्रह्मर्षये नमः शिरसि ।
सर्ववेदानुज्ञदेवदेव श्री आदिशिवदेवतायै नमः हृदि ।
नमः हसौं हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजाय नमः गुह्ये ।
स-ह-क्ष-म-ल-व-र-यीं शक्तये नमः नाभौ । हंसः सोऽहं कीलकाय नमः पादयोः ।
समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगाय नमः अञ्जलौ ।

॥ अथ षडङ्गन्यासः ॥
ॐ हसाम् । ॐ हसीम् । ॐ हसूम् ।
ॐ हसैम् । ॐ हसौम् । ॐ हसः ।

॥ अथ करन्यासः ॥
ॐ हसां अङ्गुष्ठाभ्यां नमः ।
ॐ हसीं तर्जनीभ्यां नमः ।
ॐ हसूं मध्यमाभ्यां नमः ।
ॐ हसैं अनामिकाभ्यां नमः ।
ॐ हसौं कनिष्ठाभ्यां नमः ।
ॐ हसः करतलकरपृष्ठाभ्यां नमः ।

॥ अथ अङ्गन्यासः ॥
ॐ हसां हृदयाय नमः ।
ॐ हसीं शिरसे स्वाहा ।
ॐ हसूं शिखायै वषट् ।
ॐ हसैं कवचाय हुं ।
ॐ हसौं नेत्रत्रयाय वौषट् ।
ॐ हसः अस्त्राय फट् ।

॥ ध्यानम् ॥
श्रीसिद्धमानवमुखा गुरवः स्वरूपं संसारदाहशमनं द्विभुजं त्रिनेत्रम् ।
वामाङ्गशक्तिसकलाभरणैर्विभूषं ध्यायेज्जपेत् सकलसिद्धिफलप्रदं च ॥

॥ मानसपूजन ॥
लं पृथिव्यात्मकं गन्धतन्मात्रप्रकृत्यात्मकं
गन्धं सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
हं आकाशात्मकं शब्दतन्मात्रप्रकृत्यात्मकं
पुष्पं सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।

यं वाय्वात्मकं स्पर्शतन्मात्रप्रकृत्यात्मकं
धूपं सशक्तिकाय श्रीगुरवे घ्रापयामि नमः ।
रं वह्न्यात्मकं रूपतन्मत्रप्रकृत्यात्मकं
दीपं सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।

वं अमृतात्मकं रसतन्मात्रप्रकृत्यात्मकं
नैवेद्यं सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
सं सर्वात्मिकां ताम्बूलादिसर्वोपचार
पूजांसशक्तिकाय श्रीगुरवे समर्पयामि नमः ।

॥ कवचस्तोत्रम् ॥
ॐ नमः प्रकाशानन्दनाथः तु शिखायां पातु मे सदा ।
परशिवानन्दनाथः शिरो मे रक्षयेत् सदा ॥ १॥
परशक्तिदिव्यानन्दनाथो भाले च रक्षतु ।
कामेश्वरानन्दनाथो मुखं रक्षतु सर्वधृक् ॥ २॥

दिव्यौघो मस्तकं देवि! पातु सर्वशिरः सदा ।
कण्ठादिनाभिपर्यन्तं सिद्धौघा गुरवः प्रिये ॥ ३॥
भोगानन्दनाथ गुरुः पातु दक्षिणबाहुकम् ।
समयानन्दनाथश्च सन्ततं हृदयेऽवतु ॥ ४॥

सहजानन्दनाथश्च कटिं नाभिं च रक्षतु ।
एष स्थानेषु सिद्धौघाः रक्षन्तु गुरवः सदा ॥ ५॥
अधरे मानवौघाश्च गुरवः कुलनायिके !
गगनानन्दनाथश्च गुल्फयोः पातु सर्वदा ॥ ६॥

नीलौघानन्दनाथश्च रक्षयेत् पादपृष्ठतः ।
स्वात्मानन्दनाथगुरुः पादाङ्गुलीश्च रक्षतु ॥ ७॥
कन्दोलानन्दनाथश्च रक्षेत् पादतले सदा ।
इत्येवं मानवौघाश्च न्यसेन्नाभ्यादिपादयोः ॥ ८॥

गुरुर्मे रक्षयेदुर्व्यां सलिले परमो गुरुः ।
परापरगुरुर्वह्नौ रक्षयेत् शिववल्लभे ॥ ९॥
परमेष्ठीगुरुश्चैव रक्षयेत् वायुमण्डले ।
शिवादिगुरवः साक्षात् आकाशे रक्षयेत् सदा ॥ १०॥

इन्द्रो गुरुः पातु पूर्वे आग्नेयां गुरुरग्नयः ।
दक्षे यमो गुरुः पातु नैऋत्यां निऋतिर्गुरुः ॥ ११॥
वरुणो गुरुः पश्चिमे वायव्यां मारुतो गुरुः ।
उत्तरे धनदः पातु ऐशान्यामीश्वरो गुरुः ॥ १२॥

ऊर्ध्वं पातु गुरुर्ब्रह्मा अनन्तो गुरुरप्यधः ।
एवं दशदिशः पान्तु इन्द्रादिगुरवः क्रमात् ॥ १३॥
शिरसः पादपर्यन्तं पान्तु दिव्यौघसिद्धयः ।
मानवौघाश्च गुरवो व्यापकं पान्तु सर्वदा ॥ १४॥

सर्वत्र गुरुरूपेण संरक्षेत् साधकोत्तमम् ।
आत्मानं गुरुरूपं च ध्यायेन् मन्त्रं सदा बुधः ॥ १५॥

॥ फलश्रुतिः ॥
इत्येवं गुरुकवचं ब्रह्मलोकेऽपि दुर्लभम् ।
तव प्रीत्या मया ख्यातं न कस्य कथितं प्रिये ॥ १॥
पूजाकाले पठेद् यस्तु जपकाले विशेषतः ।
त्रैलोक्यदुर्लभं देवि । भुक्तिमुक्तिफलप्रदम् ॥ २॥

सर्वमन्त्रफलं तस्य सर्वयन्त्रफलं तथा ।
सर्वतीर्थफलं देवि । यः पठेत् कवचं गुरोः ॥ ३॥
अष्टगन्धेन भूर्जे च लिख्यते चक्रसंयुतम् ।
कवचं गुरुपङ्क्तेस्तु भक्त्या च शुबवासरे ॥ ४॥

पूजयेत् धूपदीपाद्यैः सुधाभिः सितसंयुतैः ।
तर्पयेत् गुरुमन्त्रेण साधकः शुद्धचेतसा ॥ ५॥
धारयेत् कवचं देवि! इह भूतभयापहम् ।
पठेन्मन्त्री त्रिकालं हि स मुक्तो भवबन्धनात् ।
एवं कवचं परमं दिव्यसिद्धौघकलावान् ॥ ६॥



॥ इति श्री गुरु कवचं सम्पूर्णम् ॥






॥ अमोघ शिव कवच ॥
॥ Amogh Shiv Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ अथ विनियोग: ॥
अस्य श्री शिवकवच स्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः,
वृषभ ऋषिः,अनुष्टुप्छन्दः, श्री सदाशिवरुद्रो देवता,
ह्रीं शक्तिः,वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्,
श्री सदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥

॥ करन्यास ॥
ॐ नमो भगवते ज्वलज्वालामालिने ॐ ह्रां
सर्वशक्तिधाम्ने इशानात्मने अन्गुष्ठाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ नं रिं
नित्यतृप्तिधाम्ने तत्पुरुषातमने तर्जनीभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ मं रूं
अनादिशक्तिधाम्ने अधोरात्मने मध्यमाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ शिं रैं
स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ वां रौं
अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ यं र:
अनादिशक्तिधाम्ने सर्वात्मने करतल करपृष्ठाभ्याम नम: ।

॥ अंगन्यास ॥
ॐ नमो भगवते ज्वलज्वालामालिने ॐ ह्रां
सर्वशक्तिधाम्ने इशानात्मने हृदयाय नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ नं रिं
नित्यतृप्तिधाम्ने तत्पुरुषातमने शिरसे स्वाहा ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ मं रूं
अनादिशक्तिधाम्ने अधोरात्मने शिखायै वषट ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ शिं रैं
स्वतंत्रशक्तिधाम्ने वामदेवात्मने नेत्रत्रयाय वौषट ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ वां रौं
अलुप्तशक्तिधाम्ने सद्योजातात्मने कवचाय हुम ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ यं र:
अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट ।

॥ ध्यानम ॥
वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ।
सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम् ॥

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥

॥ श्री शिव कवचम ॥
सकल-तत्त्वात्मकाय, आनन्द-सन्दोहाय, सर्व-मन्त्र-स्वरूपाय,
सर्व-यंत्राधिष्ठिताय, सर्व-तंत्र-प्रेरकाय,सर्व-तत्त्व-विदूराय,
सर्-तत्त्वाधिष्ठिताय, ब्रह्म-रुद्रावतारिणे,नील-कण्ठाय,
पार्वती-मनोहर-प्रियाय, महा-रुद्राय, सोम-सूर्याग्नि-लोचनाय,
भस्मोद्-धूलित-विग्रहाय, अष्ट-गन्धादि-गन्धोप-शोभिताय,
शेषाधिप-मुकुट-भूषिताय, महा-मणि-मुकुट-धारणाय,
सर्पालंकाराय, माणिक्य-भूषणाय, सृष्टि-स्थिति-प्रलय-
काल-रौद्रावताराय, दक्षाध्वर-ध्वंसकाय, महा-काल-भेदनाय,
महा-कालाधि-कालोग्र-रुपाय, मूलाधारैक-निलयाय ।

तत्त्वातीताय, गंगा-धराय, महा-प्रपात-विष-भेदनाय,
महा-प्रलयान्त-नृत्याधिष्ठिताय, सर्व-देवाधि-देवाय,
षडाश्रयाय, सकल-वेदान्त-साराय, त्रि-वर्ग-साधनायानन्त-
कोटि-ब्रह्माण्ड-नायकायानन्त-वासुकि-तक्षक-कर्कोट-शङ्ख-
कुलिक-पद्म-महा-पद्मेत्यष्ट-महा-नाग-कुल-भूषणाय, प्रणव-
स्वरूपाय । ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः, हां हीं हूं हैं हौं हः ।

चिदाकाशायाकाश-दिक्स्वरूपाय, ग्रह-नक्षत्रादि-सर्व-प्रपञ्च-
मालिने, सकलाय, कलङ्क-रहिताय, सकल-लोकैक-कर्त्रे,
सकल-लोकैक-भर्त्रे, सकल-लोकैक-संहर्त्रे, सकल-लोकैक-
गुरवे, सकल-लोकैक-साक्षिणे, सकल-निगम-गुह्याय,
सकल-वेदान्त-पारगाय, सकल-लोकैक-वर-प्रदाय,
सकल-लोकैक-सर्वदाय, शर्मदाय, सकल-लोकैक-शंकराय ।

शशाङ्क-शेखराय, शाश्वत-निजावासाय, निराभासाय,निराभयाय,
निर्मलाय, निर्लोभाय, निर्मदाय, निश्चिन्ताय, निरहङ्काराय,
निरंकुशाय, निष्कलंकाय, निर्गुणाय,निष्कामाय, निरुपप्लवाय,
निरवद्याय, निरन्तराय, निष्कारणाय, निरातङ्काय, निष्प्रपंचाय,
निःसङ्गाय,निर्द्वन्द्वाय, निराधाराय, नीरागाय, निष्क्रोधाय, निर्मलाय,
निष्पापाय, निर्भयाय, निर्विकल्पाय, निर्भेदाय, निष्क्रियाय,निस्तुलाय,
निःसंशयाय, निरञ्जनाय, निरुपम-विभवाय, नित्य-शुद्ध-बुद्धि-परिपूर्ण-
सच्चिदानन्दाद्वयाय, ॐ हसौं ॐहसौः ह्रीम सौं क्षमलक्लीं क्षमलइस्फ्रिं
ऐंक्लीं सौः क्षां क्षीं क्षूं क्षैं क्षौं क्षः ।

परम-शान्त-स्वरूपाय, सोहं-तेजोरूपाय, हंस-तेजोमयाय,सच्चिदेकं ब्रह्म
महा-मन्त्र-स्वरुपाय, श्रीं ह्रीं क्लीं नमो भगवते विश्व-गुरवे, स्मरण-मात्र-
सन्तुष्टाय, महा-ज्ञान-प्रदाय, सच्चिदानन्दात्मने महा-योगिने सर्व-काम-
फल-प्रदाय, भव-बन्ध-प्रमोचनाय,क्रों सकल-विभूतिदाय, क्रीं सर्व-विश्वाकर्षणाय ।

जय जय रुद्र, महा-रौद्र, वीर-भद्रावतार, महा-भैरव, काल-भैरव, कल्पान्त-
भैरव, कपाल-माला-धर, खट्वाङ्ग-खङ्ग-चर्म-पाशाङ्कुश-डमरु-शूल-चाप-
बाण-गदा-शक्ति-भिन्दिपाल-तोमर-मुसल-मुद्-गर-पाश-परिघ-भुशुण्डी-
शतघ्नी-ब्रह्मास्त्र-पाशुपतास्त्रादि-महास्त्र-चक्रायुधाय ।

भीषण-कर-सहस्र-मुख-दंष्ट्रा-कराल-वदन-विकटाट्ट-हास-विस्फारित
ब्रह्माण्ड-मंडल नागेन्द्र-कुण्डल नागेन्द्र-हार,नागेन्द्र-वलय नागेन्द्र-चर्म-
धर मृत्युञ्जय त्र्यम्बक, त्रिपुरान्तक विश्व-रूप विरूपाक्ष विश्वम्भर विश्वेश्वर
वृषभ-वाहन वृष-विभूषण, विश्वतोमुख, सर्वतो रक्ष रक्ष,ज्वल ज्वल प्रज्वल
प्रज्वल स्फुर स्फुर आवेशय आवेशय, ममहृदये प्रवेशय प्रवेशय, प्रस्फुर प्रस्फुर ।

महा-मृत्युमप-मृत्यु-भयं नाशय-नाशय, चोर-भय-मुत्सादयोत्सादय, विष-सर्प-
भयं शमय शमय, चोरान् मारय मारय, मम शत्रुनुच्चाट्योच्चाटय, मम क्रोधादि-
सर्व-सूक्ष्म-तमात् स्थूल-तम-पर्यन्त-स्थितान् शत्रूनुच्चाटय, त्रिशूलेनविदारय
विदारय, कुठारेण भिन्धि भिन्धि, खड्गेन छिन्धि छिन्धि, खट्वांगेन विपोथय
विपोथय, मुसलेन निष्पेषयनिष्पेषय, वाणैः सन्ताडय सन्ताडय,रक्षांसि भीषय
भीषय,अशेष-भूतानि विद्रावय विद्रावय, कूष्माण्ड-वेताल-मारीच-गण-ब्रह्म-राक्षस-
गणान् संत्रासय संत्रासय, सर्व-रोगादि-महा-भयान्ममाभयं कुरु कुरु, वित्रस्तं
मामाश्वासयाश्वासय, नरक-महा-भयान्मामुद्धरोद्धर, सञ्जीवय सञ्जीवय,
क्षुत्-तृषा-ईर्ष्यादि-विकारेभ्यो मामाप्याययाप्यायय
दुःखातुरंमामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय ।

मृत्युञ्जय त्र्यंबक सदाशिव ! नमस्ते नमस्ते, शं ह्रीं ॐ ह्रों ।



ॐ ॥ इति अमोघ शिव कवचं सम्पूर्णम् ॥ ॐ






॥ ब्रह्माण्डविजय श्री शिव कवचम् ॥
॥ Brahmaand Vijayee Shri Shiv Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ नारद उवाच ॥
शिवस्य कवचं ब्रूहि मत्स्य राजेन यद्धृतम् ।
नारायण महाभाग श्रोतुं कौतूहलं मम ॥ १॥

॥ श्रीनारायण उवाच ॥
कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः ।
ब्रह्माण्ड विजयं नाम सर्वाऽवयव रक्षणम् ॥ २॥
पुरा दुर्वाससा दत्तं मत्स्यस्य राजाय धीमते ।
दत्वा षडक्षरं मन्त्रं सर्व पाप प्रणाशनम् ॥ ३॥

स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् ।
अस्त्रेशस्त्रेजलेवह्नौ सिद्धिश्चेन्नास्ति संशयः ॥ ४॥
यद्धृत्वा पठनात् बाणः शिवत्वं प्रापलीलया ।
बभूव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ॥ ५॥

वीरश्रेष्ठो वीरभद्रो साम्बोऽभूद् धारणाद्यतः ।
त्रैलोक्य विजयी राजा हिरण्यकशिपुः स्वयम् ॥ ६॥
हिरण्याक्षश्च विजयी चाऽभवद् धारणाद्धि सः ।
यद्धृत्वा पठनात् सिद्धो दुर्वासा विश्व पूजितः ॥ ७॥

जैगीषव्यो महायोगी पठनाद् धारणाद्यतः ।
यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ॥ ८॥
अगस्त्यश्च पुलस्त्यश्चाऽभवत् विश्वपूजितः ॥ ९॥

॥ श्री शिव कवचम् ॥
ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु ।
ॐ नमः शिवायेति च स्वाहा भालं सदाऽवतु ॥ १॥
ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु ।
ॐ ह्रीं क्लीं हूं शिवायेति नमो मे पातु नासिकाम् ॥ २॥

ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु ।
ॐ ह्रीं श्रीं हूं संसार कर्त्रे स्वाहा कर्णौ सदावतु ॥ ३॥
ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदावतु ।
ॐ ह्रीं महेशाय स्वाहा चाऽधरं पातु मे सदा ॥ ४॥

ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान् सदाऽवतु ।
ॐ ह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु ॥ ५॥
ॐ ह्रीं श्रीं क्लीं मे रुद्राय स्वाहा नाभिं सदाऽवतु ।
ॐ ह्रीं ऐं श्रीं श्रीं ईश्वराय स्वाहा पृष्ठं सदाऽवतु ॥ ६॥

ॐ ह्रीं क्लीं मृतुञ्जयाय स्वाहा भ्रुवौ सदाऽवतु ।
ॐ ह्रीं श्रीं क्लीं ईशानाय स्वाहा पार्श्वं सदाऽवतु ॥ ७॥
ॐ ह्रीं ईश्वराय स्वाहा चोदरं पातु मे सदा ।
ॐ श्रीं ह्रीं मृत्युञ्जयाय स्वाहा बाहू सदाऽवतु ॥ ८॥

ॐ ह्रीं श्रीं क्लीं ईश्वराय स्वाहा पातु करौ मम ।
ॐ महेश्वराय रुद्राय नितम्बं पातु मे सदा ॥ ९॥
ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु ।
ॐ सर्वेश्वराय शर्वाय स्वाहा पादौ सदाऽवतु ॥ १०॥

प्राच्यां मां पातु भूतेशः आग्नेय्यां पातु शङ्करः ।
दक्षिणे पातु मां रुद्रो नैॠत्यां स्थाणुरेव च ॥ ११॥
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः ।
उत्तरे गिरिशः पातु चैशान्यां ईश्वरः स्वयम् ॥ १२॥

ऊर्ध्वे मृडः सदा पातु चाऽधो मृत्युञ्जयः स्वयम् ।
जले स्थले चाऽन्तरिक्षे स्वप्ने जागरणे सदा ॥ १३॥
पिनाकी पातु मां प्रीत्या भक्तं वै भक्तवत्सलः ॥ १४॥

॥ फलश्रुतिः ॥
इति ते कथितं वत्स कवचं परमाऽद्भुतम् ॥ १५॥

दश लक्ष जपेनैव सिद्धिर्भवति निश्चितम् ।
यदि स्यात् सिद्ध कवचो रुद्र तुल्यो भवेद् ध्रुवम् ॥ १६॥
तव स्नेहान् मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ।
कवचं काण्व शाखोक्तं अतिगोप्यं सुदुर्लभम् ॥ १७॥

अश्वमेध सहस्राणि राजसूय शतानि च ।
सर्वाणि कवचस्यास्य फलं नार्हन्ति षोडशीम् ॥ १८॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
सर्वज्ञः सर्वसिद्धेशो मनोयायी भवेद् ध्रुवम् ॥ १९॥

इदं कवचं अज्ञात्वा भवेत् यः शङ्करप्रभुम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ २०॥



॥ इति श्री ब्रह्माण्डविजय शिव कवचम् सम्पूर्णम् ॥






॥ श्री रुद्र कवचम् ॥
॥ Shri Rudra Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ अथ श्री रुद्रकवचम् ॥
ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य
दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता
ह्राम् बीजम्श्रीम् शक्तिः ह्रीम् कीलकम्- मम
मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः
ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥

॥ ध्यानम् ॥
शांतम् पद्मासनस्थम् शशिधरमकुटम्
पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम्
परशुमभयदम् दक्षभागे महन्तम् ।
नागम् पाशम् च घंटाम् प्रळय हुतवहम्
सांकुशम् वामभागे नानालंकारयुक्तम्
स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥

॥ दूर्वास उवाच ॥
प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् ।
एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् ।
रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये ।
अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥

रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा ।
शिरोमे ईश्वरः पातु ललाटम् नीललोहितः ।
नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः ।
कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः ॥

वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् ।
हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् ।
नाभिम् कटिम् च वक्षश्च पातु सर्वम् उमापतिः ॥

बाहुमध्यान्तरम् चैव सूक्ष्म रूपस्सदाशिवः ।
स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम्
वज्रम् च शक्तिदम् चैव पाशांकुशधरम् तथा ।
गण्डशूलधरान्नित्यम् रक्षतु त्रिदशेश्वरः ॥

प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे संध्यायाम्
राजभवने विरूपाक्षस्तु पातु माम् ।
शीतोष्णा दथकालेषु तुहिनद्रुमकंटके ।
निर्मनुष्ये समे मार्गे पाहि माम् वृषभध्वज ॥

इत्येतद्द्रुद्रकवचम् पवित्रम् पापनाशनम् ।
महादेव प्रसादेन दूर्वास मुनिकल्पितम् ।
ममाख्यातम् समासेन नभयम् तेनविद्यते ।
प्राप्नोति परम आरोग्यम् पुण्यमायुष्यवर्धनम् ॥

विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्याम् नभय विन्दते क्वचित् ।
अपुत्रो लभते पुत्रम् मोक्षार्थी मोक्ष माप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥

त्राहिमाम् पार्वतीनाथ त्राहिमाम् त्रिपुरंतकपाशम्
खट्वांग दिव्यास्त्रम् त्रिशूलम् रुद्रमेवच ।
नमस्करोमि देवेश त्राहिमाम् जगदीश्वर ।
शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥

गमनेगमने चैव त्राहिमाम् भक्तवत्सल ।
त्वम् चित्वमादितश्चैव त्वम् बुद्धिस्त्वम् परायणम् ।
कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा ।
सर्व ज्वर भयम् छिन्दि सर्व शत्रून्निवक्त्याय ॥

सर्व व्याधिनिवारणम् रुद्रलोकम् सगच्छति रुद्रलोकम् सगच्छत्योन्नमः ॥



॥ इति श्री रुद्र कवचम् सम्पूर्णम् ॥






॥ श्री नारायण कवचम् ॥
॥ Shri Narayan Kavach ॥


॥ ॐ गण गणपतये नमः ॥
। ॐ नमो नारायणाय ।

॥ अङ्गन्यासः ॥
ॐ ॐ नमः पादयोः-
तर्जनी-अङ्गुष्ठ से दोनों पैरों का स्पर्श करें ।

ॐ नं नमः जानुनोः-
अङ्गुष्ठ से दोनों घुटनों का स्पर्श करें ।

ॐ मों नमः ऊर्वोः-
तर्जनी अङ्गुष्ठ से दोनों पैरों की जाँघ का स्पर्श करें ।

ॐ नां नमः उदरे –
तर्जनी – अङ्गुष्ठ से पेट का स्पर्श करें ।

ॐ रां नमः हृदि –
मध्यमा-अनामिका-तर्जनी से हृदय का स्पर्श करें ।

ॐ यं नमः उरसि –
मध्यमा- अनामिका-तर्जनी से छाती का स्पर्श करें ।

ॐ णां नमः मुखे –
तर्जनी – अँगुठे के अंयोग से मुख का स्पर्श करें ।

ॐ यं नमः शिरसि –
तर्जनी -मध्यमा के संयोग से सिर का स्पर्श करें ॥

॥ करन्यासः ॥
ॐ ॐ नमः दक्षिणतर्जन्याम् –
दाएं अँगुठे – तर्जनी के ऊपर वाले सिरे का स्पर्श करें ।

ॐ नं नमः दक्षिणमध्यमायाम् –
अँगुठे – मध्यमा का ऊपर वाला पोर स्पर्श करें ।

ॐ मों नमः दक्षिणानामिकायाम् –
अँगुठे से अनामिका का ऊपरवाला पोर स्पर्श करें ।

ॐ भं नमः दक्षिणकनिष्ठिकायाम् –
अँगुठे से कनिष्ठिका का ऊपर वाला पोर स्पर्श करें ।

ॐ गं नमः वामकनिष्ठिकायाम् –
बाँये अँगुठे से कनिष्ठिका का ऊपर वाला पोर स्पर्श करें ।

ॐ वं नमः वामानामिकायाम् –
अँगुठे से अनामिका का ऊपरवाला पोर स्पर्श करें ।

ॐ तें नमः वाममध्यमायाम् –
अँगुठे से मध्यमा का ऊपरवाला पोर स्पर्श करें ।

ॐ वां नमः वामतर्जन्याम् –
अँगुठे से तर्जनी का ऊपरवाला पोर स्पर्श करें ।

ॐ सुं नमः दक्षिणांगुष्ठोर्ध्वपर्वणि –
दाहिनी चारों अँगुलियों से अँगुठे का ऊपरवाला पोर स्पर्श करें ।

ॐ दें नमः दक्षिणांगुष्ठाय पर्वणि –
दाहिनी चारों अँगुलियों से अँगुठे का नीचे वाला पोर स्पर्श करें ।

ॐ वां नमः वामांगुष्ठोर्ध्वपर्वणि –
बाँये हाथ की चारों अँगुलियों से अँगुठे के ऊपरवाला पोर स्पर्श करें ।

ॐ यं नमः वामांगुष्ठाय पर्वणि –
बाँये हाथ की चारों अँगुलियों सेअँगुठे का नीचे वाला पोर स्पर्श करें ॥

॥ विष्णुषडक्षरन्यासः ॥
ॐ ॐ नमः हृदये –
तर्जनी, मध्यमा एवं अनामिका से हृदय का स्पर्श करें ।

ॐ विं नमः मूर्धनि –
तर्जनी, मध्यमा के संयोग सिर का स्पर्श करें ।

ॐ षं नमः भ्रुवोर्मध्ये –
तर्जनी, मध्यमा से दोनों भौंहों का स्पर्श करें ।

ॐ णं नमः शिखायाम् –
अँगुठे से सिखा का स्पर्श करें ।

ॐ वें नमः नेत्रयोः –
तर्जनी, मध्यमा से दोनों नेत्रों का स्पर्श करें ।

ॐ नं नमः सर्वसन्धिषु –
तर्जनी, मध्यमा और अनामिका से शरीर के सभी जोड़ों को स्पर्श करें ।

ॐ मः अस्त्राय फट् प्राच्याम् –
पूर्व की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् आग्नेय्याम् –
अग्निकोण में चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् दक्षिणस्याम् –
दक्षिण की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् नैऋत्ये –
नैऋत्य कोण में चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् प्रतीच्याम् –
पश्चिम की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् वायव्ये –
वायुकोण में चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् उदीच्याम् –
उत्तर की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् ऐशान्याम् –
ईशानकोण में चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् ऊर्ध्वायाम् –
ऊपर की ओर चुटकी बजाएँ ।

ॐ मः अस्त्राय फट् अधरायाम् –
नीचे की ओर चुटकी बजाएँ ॥

॥ अथ श्री नारायण कवचम् ॥

॥ राजोवाच ॥
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥

॥ श्री शुक उवाच ॥
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३॥

॥ विश्वरूप उवाच ॥
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥

नारायणमयं वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥

मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥

न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १०॥

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥

ॐ हरिर्विदध्यान्मम सर्वरक्षांन्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप-पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥

जलेषु मां रक्षतु मत्स्यमूर्ति-र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः।
विमुञ्चतो यस्य महाट्टहासंदिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥

मामुग्रधर्मादखिलात्प्रमादा-न्नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥

सनत्कुमारोऽवतु कामदेवा-द्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥

धन्वन्तरिर्भगवान्पात्वपथ्या-द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताञ्जनान्ता-द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥

द्वैपायनो भगवानप्रबोधा-द्बुद्धस्तु पाखण्डगणप्रमादात् ।
कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ १९॥

मां केशवो गदया प्रातरव्या-द्गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्ति-र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥

देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥

श्रीवत्सधामापररात्र ईशःप्रत्युष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥

चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २३॥

गदेऽशनिस्पर्शनविस्फुलिङ्ग निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो-भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥

त्वं यातुधानप्रमथप्रेतमातृ-पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेहृदयानि कम्पयन् ॥ २५॥

त्वं तिग्मधारासिवरारिसैन्य-मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य वा ॥ २७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥

विदिक्षु दिक्षूर्ध्वमधः समन्ता-दन्तर्बहिर्भगवान्नारसिंहः ।
प्रहापयंॅलोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७॥

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धामस्वमन्वगात् ॥ ४०॥

॥ श्री शुक उवाच ॥
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥



॥ इति श्री नारायण कवचं सम्पूर्णम् ॥






॥ श्री दत्तात्रेय वज्र कवचम् ॥
॥ Shri Dattatreya Wajjra Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ ऋषय उवाच ॥
कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे ।
धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥

॥ व्यास उवाच ॥
शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥
गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् ।
दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥
रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् ।
मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥

॥ श्री देव्युवाच ॥
देवदेव महादेव लोकशङ्कर शङ्कर ।
मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नशः ॥ ५॥
तन्त्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै ।
इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥ ६॥

इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः ।
करेणामृज्य सन्तोषात्पार्वतीं प्रत्यभाषत ॥ ७॥
मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।
इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्करः ॥ ८॥

ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ।
क्वचित् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥ ९॥
तत्र व्याहर्तुमायान्तं भिल्लं परशुधारिणम् ।
वर्ध्यमानं महाव्याघ्रं नखदण्ष्ट्राभिरावृतम् ॥ १०॥

अतीव चित्रचारित्र्यं वज्रकायसमायुतम् ।
अप्रयत्नमनायासमखिलं सुखमास्थितम् ॥ ११॥
पलायन्तं मृगं पश्चाद्व्याघ्रो भीत्या पलायितः ।
एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम् ॥ १२॥

॥ श्री पार्वत्युवाच ॥
किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् ।
इत्युक्तः स ततः शम्भुर्दृष्ट्वा प्राह पुराणवित् ॥ १३॥

॥ श्री शङ्कर उवाच ॥
गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् ।
अदृष्टपूर्वमस्माभिर्नास्ति किञ्चन्न कुत्रचित् ॥ १४॥
मया सम्यक् समासेन वक्ष्यते शृणु पार्वति ।
अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ १५॥

समित्कुशप्रसूनानि कन्दमूलफलादिकम् ।
प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥ १६॥
प्रिये पूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति ।
तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥ १७॥

दलादनो महायोगी वसन्नेव निजाश्रमे ।
कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगम्बरम् ॥ १८॥
दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् ।
तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेयः समुत्थितः ॥ १९॥

तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनिः ।
सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम् ॥ २०॥
मयोपहूतः सम्प्राप्तो दत्तात्रेय महामुने ।
स्मर्तृगामी त्वमित्येतत् किंवदन्ती परीक्षितुम् ॥ २१॥

मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे ।
दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ २२॥
अभक्त्या वा सुभक्त्या वा यः स्मरेन्मामनन्यधीः ।
तदानीं तमुपागत्य ददामि तदभीप्सितम् ॥ २३॥

दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् ।
यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥ २४॥
दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते ।
त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥ २५॥

॥ श्री दत्तात्रेय उवाच ॥
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।
तथ्येत्यङ्गीकृतवते दलादनमुनये मुनिः ॥ २६॥
स्ववज्रकवचं प्राह ऋषिच्छन्दःपुरःसरम् ।
न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥ २७॥

अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य,किरातरूपी महारुद्र
ऋषिः, अनुष्टुप् छन्दः, श्रीदत्तात्रेयो देवता, द्रां बीजं, आं शक्तिः,
क्रौं कीलकं, ॐ आत्मने नमः । ॐ द्रीं मनसे नमः ।
ॐ आं द्रीं श्रीं सौः ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः ।
श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ।

॥ अथ ध्यानम् ॥
जददङ्कुरकन्दाय सच्चिदानन्दमूर्तये ।
दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ॥
कदा योगी कदा भोगी कदा नग्नः पिशाचवत् ।
दत्तात्रेयो हरिः साक्षाद्भुक्तिमुक्तिप्रदायकः ॥

वाराणसीपुरस्नायी कोल्हापुरजपादरः ।
माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर ॥
इन्द्रनीलसमाकारश्चन्द्रकान्तिसमद्युतिः ।
वैडुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधरः ॥

स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिकः ।
भ्रूवक्षःश्मश्रुनीलाङ्कः सशाङ्कसदृशाननः ॥
हासनिर्जितनीहारः कण्ठनिर्जितकम्बुकः ।
मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥

विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः ।
पृथुलश्रोणिललितो विशालजघनस्थलः ॥
रम्भास्तम्भोपमानोरुर्जानुपूर्वैकजङ्घकः ।
गूढगुल्फः कूर्मपृष्ठोलसत्पादोषरिस्थलः ॥

रक्तारविन्दसदृशरमणीयपदाधरः ।
चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ॥
ज्ञानोपदेशनीरतो विपद्धरणदीक्षितः ।
सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥

वामहस्तेन वरदो दक्षिणेनाभयङ्करः ।
बालोन्मत्तपिशाचीभिः क्वचिद्युक्तः परीक्षितः ॥
त्यागी भोगी महायोगी नित्यानन्दो निरञ्जनः ।
सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥

भस्मोद्धूलितसर्वाङ्गो महापातकनाशनः ।
भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥
एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् ।
मामेव पश्यन्सर्वत्र स मया सह सङ्चरेत् ॥

दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् ।
पद्मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरणेन नित्यम् ॥
(अथ पञ्चोपचारैः संपूज्य ॐ द्रां इति अष्टोत्तरशतवारं जपेत्)
ॐ द्रां ।

ॐ दत्तात्रेयः शिरः पातु सहस्राब्जेषु संस्थितः ।
भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यगः ॥ २८॥
कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः ।
ज्योतिरूपोऽक्षिणी पातु पातु शब्दात्मकः श्रुती ॥ २९॥

नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः ।
जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥ ३०॥
कपोलावत्रिभूः पातु पात्वशेषं ममात्ववित् ।
स्वरात्मा षोडशाराब्जस्थितः स्वात्माऽवताद्गलम् ॥ ३१॥

स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृतादिभूः ।
जत्रुणी शत्रुजित् पातु पातु वक्षःस्थलं हरिः ॥ ३२॥
कादिठान्तद्वादशारपद्मगो मरुदात्मकः ।
योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ ३३॥

पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः ।
हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥ ३४॥
डकारादिफकारान्तदशारसरसीरुहे ।
नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ ३५॥

वह्नितत्वमयो योगी रक्षतान्मणिपूरकम् ।
कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥ ३६॥
वकारादिलकारान्तषट्पत्राम्बुजबोधकः ।
जलतत्वमयो योगी स्वाधिष्ठानं ममावतु ॥ ३७॥

सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु ।
वादिसान्तचतुष्पत्रसरोरुहनिबोधकः ॥ ३८॥
मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही ।
पृष्ठं च सर्वतः पातु जान्युन्यस्तकराम्बुजः ॥ ३९॥

जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः ।
सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ ४०॥
चर्म चर्माम्बरः पातु रक्तं भक्तिप्रियोऽवतु ।
मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ ४१॥

अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् ।
शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ ४२॥
मनोबुद्धिमहङ्कारं हृषीकेशात्मकोऽवतु ।
कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ ४३॥

बन्धून् बन्धूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् ।
गृहारामधनक्षेत्रपुत्रादीञ्छङ्करोऽवतु ॥ ४४॥
भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शार्ङ्गभृत् ।
प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्करः ॥ ४५॥

सुखं चन्द्रात्मकः पातु दुःखात् पातु पुरान्तकः ।
पशून्पशूपतिः पातु भूतिं भूतेश्वरो मम ॥ ४६॥
प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ।
याम्यां धर्मात्मकः पातु नैऋत्यां सर्ववैरिहृत् ॥ ४७॥

वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु ।
कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ ४८॥
उर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः । ॐ द्रां ।

॥ मन्त्र जपः ॥
ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ।

ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ।
रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वरः ॥ ४९॥
एतन्मे वज्रकवचं यः पठेच्छृणुयादपि ।
वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम् ॥ ५०॥

त्यागी भोगी महायोगी सुखदुःखविवर्जितः ।
सर्वत्रसिद्धसङ्कल्पो जीवन्मुक्तोऽद्य वर्तते ॥ ५२॥
इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बरः ।
दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥ ५३॥

भिल्लो दूरश्रवा नाम तदानीं श्रुतवादिनम् ।
सकृच्छ्रवणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥ ५४॥
इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिनः ।
श्रुत्वाशेषं शम्भुमुखात् पुनरप्याह पार्वती ॥ ५५॥

॥ पार्वत्युवाच ॥
एतत्कवचमाहात्म्यं वद विस्तरतो मम ।
कुत्र केन कदा जाप्यं किं यजाप्यं कथं कथम् ॥ ५६॥
उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम् ।

॥ श्री शिव उवाच ॥
श्रुणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥ ५७॥

धर्मार्थकाममोक्षाणामिदमेव परायणम् ।
हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ॥ ५८॥
पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् ।
वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ॥ ५९॥

सङ्गीतशास्त्रसाहित्यसत्कवित्वविधायकम् ।
बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ॥ ६०॥
सर्वसन्तोषकरणं सर्वदुःखनिवारणम् ।
शत्रु संहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥ ६१॥

अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश ।
षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥ ६२॥
अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि ।
अशीतिर्वातरोगाश्च चत्वारिशत्तु पैत्तिकाः ॥ ६३॥

विंशतिश्लेष्मरोगाश्च क्षयचातुर्थिकादयः ।
मन्त्रयन्त्रकुयोगाद्याः कल्पतन्त्रादिनिर्मिताः ॥ ६४॥
ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्भवाः ।
सङ्गजाः देशकालस्थास्तापत्रयसमुत्थिताः ॥ ६५॥

नवग्रहसमुद्भूता महापातकसम्भवाः ।
सर्वे रोगाः प्रणश्यन्ति सहस्रावर्तनाद्ध्रुवम् ॥ ६६॥
अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् ।
अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥ ६७॥

अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।
सहस्रादयुतादर्वाक् सर्वकार्याणि साधयेत् ॥ ६८॥
लक्षावृत्या कार्यसिद्धिर्भवेत्येव न संशयः ।
विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः ॥ ६९॥

कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ।
औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ॥ ७०॥
श्रीवक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि ।
ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके ॥ ७१॥

ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ।
धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ॥ ७२॥
देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ।
नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ॥ ७३॥

युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ।
कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ॥ ७४॥
ज्वरापस्मारकुष्ठादितापज्वरनिवारणम् ।
यत्र यत्स्यात्स्थिरं यद्यत्प्रसन्नं तन्निवर्तते ॥ ७५॥

तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ।
इत्युक्त्वान् च शिवो गौर्ये रहस्यं परमं शुभं ॥ ७६॥
यः पठेत् वज्रकवचं दत्तात्रेयोसमो भवेत् ।
एवं शिवेन कथितं हिमवत्सुतायै प्रोक्तं ॥ ७७॥

दलादमुनयेऽत्रिसुतेनपूर्वम् यः कोऽपि वज्रकवचं ।
पठतीह लोके दत्तोपमश्चरति योगिवरश्चिरायुः ॥ ७८॥



॥ इति श्री दत्तात्रेय वज्र कवच स्तोत्रं सम्पूर्णम् ॥






॥ श्री राम कवचम् ॥
॥ Shri Ram Kavach ॥


॥ ॐ गण गणपतये नमः ॥
। ॐ श्री रामाय तुभ्यं नमः ।

॥ अगस्तिरुवाच ॥
आजानुबाहुमरविन्ददळायताक्षाजन्म शुद्धरस हास मुखप्रसादम् ।
श्यामं गृहीत शरचाप मुदाररूपम् । रामं सराम मभिराम मनुस्मरामि ॥ १॥

श्रुणु वक्ष्याम्यहं सर्वं सुत्तिक्ष्ण मुनिसत्तम ।
श्रीरामकवचं पुण्यं सर्वकाम प्रदायकम् ॥ २॥
अद्वैतानन्द चैतन्य शुद्ध सत्वैक लक्षणः ।
बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥

तत्व विद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि ।
इति रामपदे नासौ परब्रह्माभिधीयते ॥ ४॥
जयरामेति यन्नाम कीर्तयन् नाभिवर्णयेत् ।
सर्वपापैर्विनिर्मुक्तो याति विष्णोः परं पदम् ॥ ५॥

श्रीरामेति परं मन्त्रं तदेव परमं पदम् ।
तदेव तारकं विद्धि जन्म मृत्यु भयापहम् ॥ ६॥
श्री रामेति वदन् ब्रह्मभावमाप्नो त्यसंशयम् ॥ ७॥

ॐ अस्य श्री रामकवचस्य, अगस्त्य ऋषिः । अनुष्टुप् छन्दः ।
सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता ।
श्री रामचन्द्र प्रसाद सिद्ध्यर्थं जपे विनियोगः ॥

अथध्यानं प्रवक्ष्यामि सर्वाभीष्ट फलप्रदम् ।
नीलजीमूत सङ्काशं विद्युद् वर्णाम्बरावृतम् ॥ १॥
कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ।
सीतासौमित्रि सहितं जटामकुट धारिणम् ॥ २॥

सासितूरण धनुर्बाण पाणिं दानव मर्दनम् ।
यदाचोरभये राजभये शत्रुभये तथा ॥ ३॥
ध्यात्वा रघुपतिं कृद्धं कालानल समप्रभम् ।
चीरकृष्णाजिनधरं भस्मोद्धूळित विग्रहम् ॥ ४॥

आकर्णाकृष्ट सशर कोदण्ड भुजमण्डितम् ।
रणे रिपून् रावणादीन् तीक्ष्णमार्गण वृष्टिभिः ॥ ५॥
संहरन्तं महावीरं उग्रं ऐन्द्र रथस्थितम् ।
लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ॥ ६॥

सुग्रीवद्यैर् माहावीरैः शैल वृक्ष करोद्यतैः ।
वेगात् करालहुङ्कारैः भुभुक्कार महारवैः ॥ ७॥
नदद्भिः परिवादद्भिः समरे रावणं प्रति ।
श्रीराम शत्रुसङ्घान् मे हन मर्दय घातय ॥ ८॥

भूतप्रेत पिशाचादीन् श्रीरामशु विनाशय ।
एवं ध्यात्वा जपेत् राम कवचं सिद्धि दायकम् ॥ ९॥
सुतीक्ष्ण वज्रकवचं श्रुणुवक्ष्याम्यहं शुभम् ।
श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ॥ १०॥

दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ।
उत्तरे मे रघुपतिः भालं दशरथात्मजः ॥ ११॥
भृवोर् दूर्वादळश्यामः तयोर्मध्ये जनार्दनः ।
श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥ १२॥

घ्राणं मे पातु राजर्षिः कण्ठं मे जानकीपतिः ।
कर्णमूले ख्रध्वंसी भालं मे रघुवल्लभः ॥ १३॥
जिह्वां मे वाक्पतिः पातु दन्तवल्यौ रघूत्तमः ।
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ॥ १४॥

कण्ठं पातु जगत् वन्द्यः स्कन्धौ मे रावणान्तकः ।
धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ॥ १५॥
सर्वाण्यङ्गुळि पर्वाणि हस्तौ मे राक्षसान्तकः ।
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ॥ १६॥

स्तनौ सीतापतिः पातु पार्श्वे मे जगदीश्वरः ।
मध्यं मे पातु लक्ष्मीशो नभिं मे रघुनायकः ॥ १७॥
कौसल्येयः कटिं पातु पृष्टं दुर्गति नाशनः ।
गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ॥ १८॥

ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ।
जङ्घे पातु जगद्व्यापी पादौ मे ताटिकान्तकः ॥ १९॥
सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ।
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ॥ २०॥

पातु श्रीरामभद्रो मे शब्दादीन् विषयानपि ।
द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ॥ २१॥
जामतग्न्य महादर्पदळनः पातु तानि मे ।
सौमित्रि पूर्वजः पातु वागादीनीन्द्रियाणि च ॥ २२॥

रोमाङ्कुराण्यशेषाणि पातु सुग्रीव राज्यदः ।
वाङ्मनो बुद्ध्यहङ्कारैः ज्ञानाज्ञान कृतानि च ॥ २३॥
जन्मान्तर कृतानीह पापानि विविधानि च ।
तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः ॥ २४॥

पातु मां सर्वतो रामः शार्ङ्ग बाणधर: सदा ।
इति श्रीरामचन्द्रस्य कवचं वज्रसंमितम् ॥ २५॥
गुह्यात् गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तमः ।
यः पठेत् श्रुणुयाद्वापि श्रावयेद् वा समाहितः ॥ २६॥

स याति परमं स्थानं रामचन्द्र प्रसादतः ।
महापातकयुक्तो वा गोघ्नो वा भॄणहातथा ॥ २७॥
श्रीरमचन्द्र कवच पठनात् सुद्धि माप्नुयात् ।
ब्रह्महत्यादिभिः पापैः मुच्यते नात्र संशयः ॥ २८॥



॥ इति श्री रामकवचं सम्पूर्णम् ॥


॥ श्री नृसिंहकवचं ॥
॥ Shri Narsingh Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ नारद उवाच ॥
इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो
यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ १॥

॥ ब्रह्मोवाच ॥
शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन ।
कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ २॥
यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् ।
स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३॥

लक्ष्मीर्जगत्त्रयम् पाति संहर्ता च महेश्वरः ।
पठनाद्धारणाद्देवा बभुवुश्च दिगीश्वराः ॥ ४॥
ब्रह्म मन्त्रमयं वक्ष्ये भूतादिविनिवारकम् ।
यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी मुनिः ।
पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ ५॥

त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री नृसिंह देवता विभुः ।
चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ ६॥

क्ष्रौं बिजं मे शिरः पातु चन्द्रवर्णो महामनुः ।
उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ ७॥

द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवम् क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ८॥
नरसिंहाय च ज्वालामालिने पातु मस्तकम् ।
दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ ९॥

सर्वरक्षोघ्नाय देवाय सर्वभूतविनाशाय च ।
सर्वज्वरविनाशाय दह दह पच द्वयम् ॥ १०॥
रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम ।
तारादि रामचन्द्राय नमः पायाद्गूह्यं मम ॥ ११॥

क्लीं पायात्पाणियुग्मंश्च तक्रम् नमः पदम् ततः ।
नरायणाऽप्रसवम् च आं ह्रीं क्रौं क्ष्रौं चं हुं फट् ॥ १२॥
षडक्षरः कटिं पातु ॐ नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ १३॥

क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ १४॥
क्ष्रौं नरसिंहाय क्ष्रौंश्च सर्वाङ्गं मे सदाऽवतु ॥ १५॥

इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् ।
तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ १६॥
गुरुपूजा विधायाथ गृहणीयात् कवचं ततः ।
सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ॥ १७॥

शतमष्टोत्तरं चैव पुरश्चर्याविधि स्मृतः ।
हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ १८॥
ततस्तु सिद्ध कवचः पुण्यात्मा मदनोपमः ।
स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ १९॥

पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् ।
अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ २०॥
भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि ।
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ २१॥

योषिद्वामभुजे चैव पुरुषो दक्षिणे करे ।
विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥ २२॥
काकबन्ध्या च या नारी मृतवत्सा च या भवेत् ।
जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ २३॥

कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ २४॥
भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये ।
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥ २५॥

यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति ।
तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ २६॥



॥ इति श्री नृसिंह कवचं सम्पूर्णम् ॥






॥ श्री गरुड कवचम् ॥
॥ Shri Garur Kavach ॥


॥ ॐ गण गणपतये नमः ॥

अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद भगवान् ऋषिः
वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः ।

ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥
नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥

हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ॥ ३॥
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा ।
नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥

ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा ।
पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥
रोमकूपानि मे वीरो त्वचं पातु भयापहा ।
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ॥ ६॥

यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ।
त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्विषैः ॥ ७॥



॥ इति श्री गरुड कवचं सम्पूर्णम् ॥






॥ श्री लक्ष्मीनारायण कवचम् ॥
॥ Shri Lakshmi Narayan Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ श्री भैरव उवाच ॥
अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।
कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥
श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।
रहस्यं सर्वदेवानां साधकानां विशेषतः ॥ २॥

यं धृत्वा भगवान् देवः प्रसीदति परः पुमान् ।
यस्य धारणमात्रेण ब्रह्मा लोकपितामहः ॥ ३॥
ईश्वरोऽहं शिवो भीमो वासवोऽपि दिवस्पतिः ।
सूर्यस्तेजोनिधिर्देवि चन्द्रर्मास्तारकेश्वरः ॥ ४॥

वायुश्च बलवांल्लोके वरुणो यादसाम्पतिः ।
कुबेरोऽपि धनाध्यक्षो धर्मराजो यमः स्मृतः ॥ ५॥
यं धृत्वा सहसा विष्णुः संहरिष्यति दानवान् ।
जघान रावणादींश्च किं वक्ष्येऽहमतः परम् ॥ ६॥

कवचस्यास्य सुभगे कथितोऽयं मुनिः शिवः ।
त्रिष्टुप् छन्दो देवता च लक्ष्मीनारायणो मतः ॥ ७॥
रमा बीजं परा शक्तिस्तारं कीलकमीश्वरि ।
भोगापवर्गसिद्ध्यर्थं विनियोग इति स्मृतः ॥ ८॥

ॐ अस्य श्रीलक्ष्मीनारायणकवचस्य शिवः ऋषिः,
त्रिष्टुप् छन्दः , श्रीलक्ष्मीनारायण देवता, श्रीं बीजं , ह्रीं शक्तिः,
ॐ कीलकं ,भोगापवर्गसिद्ध्यर्थे पाठे विनियोगः ।

॥ अथ ध्यानम् ॥
पूर्णेन्दुवदनं पीतवसनं कमलासनम् ।
लक्ष्म्या श्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥ ९॥

॥ अथ कवचम् ॥
ॐ वासुदेवोऽवतु मे मस्तकं सशिरोरुहम् ।
ह्रीं ललाटं सदा पातु लक्ष्मीविष्णुः समन्ततः ॥ १०॥
ह्सौः नेत्रेऽवताल्लक्ष्मीगोविन्दो जगतां पतिः ।
ह्रीं नासां सर्वदा पातु लक्ष्मीदामोदरः प्रभुः ॥ ११॥

श्रीं मुखं सततं पातु देवो लक्ष्मीत्रिविक्रमः ।
लक्ष्मी कण्ठं सदा पातु देवो लक्ष्मीजनार्दनः ॥ १२॥
नारायणाय बाहू मे पातु लक्ष्मीगदाग्रजः ।
नमः पार्श्वौ सदा पातु लक्ष्मीनन्दैकनन्दनः ॥ १३॥

अं आं इं ईं पातु वक्षो ॐ लक्ष्मीत्रिपुरेश्वरः ।
उं ऊं ऋं ॠं पातु कुक्षिं ह्रीं लक्ष्मीगरुडध्वजः ॥ १४॥
लृं लॄं एं ऐं पातु पृष्ठं ह्सौः लक्ष्मीनृसिंहकः ।
ओं औं अं अः पातु नाभिं ह्रीं लक्ष्मीविष्टरश्रवः ॥ १५॥

कं खं गं घं गुदं पातु श्रीं लक्ष्मीकैटभान्तकः ।
चं छं जं झं पातु शिश्र्नं लक्ष्मी लक्ष्मीश्वरः प्रभुः ॥ १६॥
टं ठं डं ढं कटिं पातु नारायणाय नायकः ।
तं थं दं धं पातु चोरू नमो लक्ष्मीजगत्पतिः ॥ १७॥

पं फं बं भं पातु जानू ॐ ह्रीं लक्ष्मीचतुर्भुजः ।
यं रं लं वं पातु जङ्घे ह्सौः लक्ष्मीगदाधरः ॥ १८॥
शं षं सं हं पातु गुल्फौ ह्रीं श्रीं लक्ष्मीरथाङ्गभृत् ।
ळं क्षः पादौ सदा पातु मूलं लक्ष्मीसहस्रपात् ॥ १९॥

ङं ञं णं नं मं मे पातु लक्ष्मीशः सकलं वपुः ।
इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदावतु ॥ २०॥
यमो मां दक्षिणे पातु नैरृत्यां निरृतिश्च माम् ।
वरुणः पश्चिमेऽव्यान्मां वायव्येऽवतु मां मरुत् ॥ २१॥

उत्तरे धनदः पायादैशान्यामीश्वरोऽवतु ।
वज्रशक्तिदण्डखड्ग पाशयष्टिध्वजाङ्किताः ॥ २२॥
सशूलाः सर्वदा पान्तु दिगीशाः परमार्थदाः ।
अनन्तः पात्वधो नित्यमूर्ध्वे ब्रह्मावताच्च माम् ॥ २३॥

दशदिक्षु सदा पातु लक्ष्मीनारायणः प्रभुः ।
प्रभाते पातु मां विष्णुर्मध्याह्ने वासुदेवकः ॥ २४॥
दामोदरोऽवतात् सायं निशादौ नरसिंहकः ।
सङ्कर्षणोऽर्धरात्रेऽव्यात् प्रभातेऽव्यात् त्रिविक्रमः ॥ २५॥

अनिरुद्धः सर्वकालं विश्वक्सेनश्च सर्वतः ।
रणे राजकुले द्युते विवादे शत्रुसङ्कटे
ॐ ह्रीं ह्सौः ह्रीं श्रीं मूलं लक्ष्मीनारायणोऽवतु ॥ २६॥

ॐॐॐरणराजचौररिपुतः पायाच्च मां केशवः
ह्रींह्रींह्रींहह्हाह्सौः ह्सह्सौः वह्नेर्वतान्माधवः ।
ह्रींह्रींह्रींजलपर्वताग्निभयतः पायादनन्तो विभुः
श्रींश्रींश्रींशशशाललं प्रतिदिनं लक्ष्मीधवः पातु माम् ॥ २७॥

इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।
लक्ष्मीनारायणस्येष्टं चतुर्वर्गफलप्रदम् ॥ २८॥
सर्वसौभाग्यनिलयं सर्वसारस्वतप्रदम् ।
लक्ष्मीसंवननं तत्वं परमार्थरसायनम् ॥ २९॥

मन्त्रगर्भं जगत्सारं रहस्यं त्रिदिवौकसाम् ।
दशवारं पठेद्रात्रौ रतान्ते वैष्णवोत्तमः ॥ ३०॥
स्वप्ने वरप्रदं पश्येल्लक्ष्मीनारायणं सुधीः ।
त्रिसन्ध्यं यः पठेन्नित्यं कवचं मन्मुखोदितम् ॥ ३१॥

स याति परमं धाम वैष्णवं वैष्णवेश्वरः ।
महाचीनपदस्थोऽपि यः पठेदात्मचिन्तकः ॥ ३२॥
आनन्दपूरितस्तूर्णं लभेद् मोक्षं स साधकः ।
गन्धाष्टकेन विलिखेद्रवौ भूर्जे जपन्मनुम् ॥ ३३॥

पीतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् ।
धारयेद्गुटिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् ॥ ३४॥
रणे रिपुन् विजित्याशु कल्याणी गृहमाविशेत् ।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ ३५॥

सा बध्नीयान् कण्ठदेशे लभेत् पुत्रांश्चिरायुषः ।
गुरुपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् ॥ ३६॥
वर्णलक्षपुरश्चर्या फलमाप्नोति साधकः ।
बहुनोक्तेन किं देवि कवचस्यास्य पार्वति ॥ ३७॥

विनानेन न सिद्धिः स्यान्मन्त्रस्यास्य महेश्वरि ।
सर्वागमरहस्याढ्यं तत्वात् तत्वं परात् परम् ॥ ३८॥
अभक्ताय न दातव्यं कुचैलाय दुरात्मने ।
दीक्षिताय कुलीनाय स्वशिष्याय महात्मने ॥ ३९॥

महाचीनपदस्थाय दातव्यं कवचोत्तमम् ।
गुह्यं गोप्यं महादेवि लक्ष्मीनारायणप्रियम् ।
वज्रपञ्जरकं वर्म गोपनीयं स्वयोनिवत् ॥ ४०॥



॥ इति श्री लक्ष्मीनारायण कवचं सम्पूर्णम् ॥






॥ श्री कृष्ण नाम कवचम् ॥
॥ Shri Krishan Naam Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ नारद उवाच ॥
भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः ।
कृपया-ऽदात् परशुरामाय स्तोत्रं च वर्म च ॥ १॥

कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च ।
स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥ २॥

॥ नारायण उवाच ॥
मन्त्राराध्यो हि भगवान् परिपूर्णतमः स्वयम् ।
गोलोकनाथः श्रीकृष्णो गोप-गोपीश्वरः प्रभुः ॥ ३॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
स्तवराजं महापुण्यं भूतियोग-समुद्भवम् ॥ ४॥

मन्त्रं कल्पतरुं नाम सर्वकाम-फलप्रदम् ।
ददौ परशुरामाय रत्नपर्वत-सन्निधौ ॥ ५॥
स्वयंप्रभा-नदीतीरे पारिजात-वनान्तरे ।
आश्रमे लोकदेवस्य माधवस्य च सन्निधौ ॥ ६॥

॥ महादेव उवाच ॥
वत्सागच्छ महाभाग भृगुवंश-समुद्भव ।
पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ॥ ७॥
शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् ।
त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ॥ ८॥

श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे ।
रासमण्डल-मध्ये च मह्यं वृन्दावने वने ॥ ९॥
अतिगुह्यतरं तत्त्वं सर्व-मन्त्रौघविग्रहम् ।
पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते ॥ १०॥

यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी ।
शुंभं निशुंभं महिषं रक्तबीजं जघान ह ॥ ११॥
यद्धृत्वाऽहं च जगतां संहर्ता सर्वतत्ववित् ।
अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ॥ १२॥

यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् ।
यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ॥ १३॥
यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया ।
यद्धृत्वा भगवान्वायुः विश्वाधारो विभुः स्वयम् ॥ १४॥

यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः ।
यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥ १५॥
यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः ।
यद्धृत्वा पठनाच्चन्द्रो महाबल-पराक्रमः ॥ १६॥

अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ ।
चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ॥ १७॥
यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा ।
यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ॥ १८॥

यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः ।
सर्व-विद्याधिदेवी सा यच्च धृत्वा सरस्वती ॥ १९॥
यद्धृत्वा जगतां लक्ष्मी-रन्नदात्री परात्परा ।
यद्धृत्वा पठनाद्वेदान् सावित्री सा सुषाव च ॥ २०॥

वेदाश्च धर्मवक्तारो यद्धृत्वा पठनाद् भृगो ।
यद्धृत्वा पठनाच्छुद्ध-स्तेजस्वी हव्यवाहनः ।
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः ॥ २१॥

दातव्यं कृष्ण-भक्ताय साधवे च महात्मने ।
शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् ॥ २२॥
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ॠषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥ २३॥

त्रैलोक्यविजय-प्राप्तौ विनियोगः प्रकीर्तितः ।
परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २४॥
प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।
पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥ २५॥

कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ।
हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ २६॥
ॐ गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् ।
गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥ २७॥

ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ।
ॐ कृष्णाय नमः शश्वत्पातु मेऽधर-युग्मकम् ॥ २८॥
ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।
पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ २९॥

ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।
रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ ३०॥
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।
नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ ३१॥

ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।
नमः किशोर-वेषाय स्वाहा पृष्टं सदाऽवतु ॥ ३२॥
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।
ॐ ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥ ३३॥

ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम ।
ॐ ह्रीं भगवते स्वाहा नखं पातु मे सदा ॥ ३४॥
ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु ।
ॐ ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ॥ ३५॥

ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ।
ॐ गोपीरमणाय स्वाह नितम्बं पातु मे सदा ॥ ३६॥
ॐ गोपीरमणनाथाय पादौ पातु सदा मम ।
ॐ ह्रीं क्लीं रसिकेशाय स्वाहा सर्वं सदाऽवतु।३७ ॥

ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु ।
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ ३८॥
ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु ।
ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ ३९॥

परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ।
स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥ ४०॥
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।
नैरॄत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥ ४१॥

गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ।
उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ ४२॥
ऐशान्यां मां सदा पातु वृन्दावन-विहारकृत् ।
वृन्दावनी-प्राणनाथः पातु मामूर्ध्वदेशतः ॥ ४३॥

सदैव माधवः पातु बलिहारी महाबलः ।
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ ४४॥
स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा ।
सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥ ४५॥

इति ते कथितं वत्स सर्वमन्त्रौघ-विग्रहम् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ ४६॥
मया श्रुतं कृष्ण-वक्त्रात् प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् यः ॥ ४७॥

कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ।
स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥ ४८॥
यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः ।
निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ॥ ४९॥

राजसूय-सहस्राणि वाजपेय-शतानि च ।
अश्वमेधायुतान्येव नरमेधायुतानि च ॥ ५०॥
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ।
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ ५१॥

व्रतोपवास-नियमं स्वाध्यायाध्ययनं तपः ।
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ ५२॥
सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ।
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥ ५३॥

स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः ।
यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम् ॥ ५४॥
इदं कवच-मज्ञात्वा भजेत्कृष्णं सुमन्दधीः ।
कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥ ५५॥

गृहीत्वा कवचं वत्स महीं निःक्षत्रियं कुरु ।
त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया ॥ ५६॥
राज्यं देयं शिरो देयं प्रणा देयाश्च पुत्रक ।
एवंभूतं च कवचं न देयं प्राणसंकटे ॥ ५७॥



॥ इति श्री कृष्ण नाम कवचं संपूर्णम् ॥






॥ श्री दशमहाविद्या कवचम् ॥
॥ Shri Das Mahavidya Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ विनियोगः ॥
ॐ अस्य श्रीमहाविद्याकवचस्य श्रीसदाशिव ऋषिः उष्णिक् छन्दः
श्रीमहाविद्या देवता सर्वसिद्धीप्राप्त्यर्थे पाठे विनियोगः ।

॥ ऋष्यादि न्यासः ॥
श्रीसदाशिवऋषये नमः शिरसी उष्णिक् छन्दसे नमः मुखे
श्रीमहाविद्यादेवतायै नमः हृदि सर्वसिद्धिप्राप्त्यर्थे
पाठे विनियोगाय नमः सर्वाङ्गे ।

॥ मानसपुजनम् ॥
ॐ पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः।

॥ अथ श्री महाविद्याकवचम् ॥
ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥ १॥
नैरृत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥ २॥

कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ३॥
ऊर्ध्वं रक्षतु मे विद्या मातङ्गीपीठवासिनी ।
सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥ ४॥

ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥ ५॥
त्रिपुरा भ्रुयुगे पातु शर्वाणी पातु नासिकाम् ।
चक्षुषी चण्डिका पातु श्रोत्रे निलसरस्वती ॥ ६॥

मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥ ७॥
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥ ८॥

पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं महाविद्या महोदरी ॥ ९॥
उग्रतारा महादेवी जङ्घोरू परिरक्षतु । ??
उग्रातारा गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥ १०॥

पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ॥ ११॥
महाभयेषु घोरेषु महाभयनिवारिणी ।
पातु देवी महामाया कामाख्यापीठवासिनी ॥ १२॥

भस्माचलगता दिव्यसिंहासनकृताश्रया ।
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥ १३॥
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥ १४॥



॥ इति श्री दश महाविद्या कवचम् सम्पूर्णाम ॥






॥ श्री देवी चण्डी कवच ॥
॥ Shri Devi Chandi Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ विनियोग: ॥
ॐ अस्य श्रीदेव्या: कवचस्य ब्रह्मा ऋषि:, अनुष्टुप् छन्द:,
ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवता, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं
अंग-न्यस्ता देव्य: शक्तय:, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजानि,
श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोग:।

॥ ऋष्यादि-न्यास: ॥
ब्रह्मर्षये नम: शिरसि, अनुष्टुप् छन्दसे नम: मुखे, ख्फ्रें चामुण्डाख्या
महा-लक्ष्मी: देवतायै नम: हृदि, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य:
शक्तिभ्यो नम: नाभौ, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजेभ्यो नम: लिंगे,
श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोगाय नम: सर्वांगे।

॥ ध्यान: ॥
ॐ रक्ताम्बरा रक्तवर्णा, रक्त-सर्वांग-भूषणा।
रक्तायुधा रक्त-नेत्रा, रक्त-केशाऽति-भीषणा।।१
रक्त-तीक्ष्ण-नखा रक्त-रसना रक्त-दन्तिका।
पतिं नारीवानुरक्ता, देवी भक्तं भजेज्जनम्।।२

वसुधेव विशाला सा, सुमेरू-युगल-स्तनी।
दीर्घौ लम्बावति-स्थूलौ, तावतीव मनोहरौ।।३
कर्कशावति-कान्तौ तौ, सर्वानन्द-पयोनिधी।
भक्तान् सम्पाययेद् देवी, सर्वकामदुघौ स्तनौ।।४

खड्गं पात्रं च मुसलं, लांगलं च बिभर्ति सा।
आख्याता रक्त-चामुण्डा, देवी योगेश्वरीति च।।५
अनया व्याप्तमखिलं, जगत् स्थावर-जंगमम्।
इमां य: पूजयेद् भक्तो, स व्याप्नोति चराचरम्।।६

॥ मार्कण्डेय उवाच ॥
ॐॐॐ यद् गुह्यं परमं लोके, सर्व-रक्षा-करं नृणाम्।
यन्न कस्यचिदाख्यातं, तन्मे ब्रूहि पितामह।।१

॥ ब्रह्मोवाच ॥
ॐ अस्ति गुह्य-तमं विप्र सर्व-भूतोपकारकम्।
देव्यास्तु कवचं पुण्यं, तच्छृणुष्व महामुने।।२
प्रथमं शैल-पुत्रीति, द्वितीयं ब्रह्म-चारिणी।
तृतीयं चण्ड-घण्टेति, कूष्माण्डेति चतुर्थकम्।।३

पंचमं स्कन्द-मातेति, षष्ठं कात्यायनी तथा।
सप्तमं काल-रात्रीति, महागौरीति चाष्टमम्।।४
नवमं सिद्धि-दात्रीति, नवदुर्गा: प्रकीर्त्तिता:।
उक्तान्येतानि नामानि, ब्रह्मणैव महात्मना।।५

अग्निना दह्य-मानास्तु, शत्रु-मध्य-गता रणे।
विषमे दुर्गमे वाऽपि, भयार्ता: शरणं गता।।६
न तेषां जायते किंचिदशुभं रण-संकटे।
आपदं न च पश्यन्ति, शोक-दु:ख-भयं नहि।।७

यैस्तु भक्त्या स्मृता नित्यं, तेषां वृद्धि: प्रजायते।
प्रेत संस्था तु चामुण्डा, वाराही महिषासना।।८
ऐन्द्री गज-समारूढ़ा, वैष्णवी गरूड़ासना।
नारसिंही महा-वीर्या, शिव-दूती महाबला।।९

माहेश्वरी वृषारूढ़ा, कौमारी शिखि-वाहना।
ब्राह्मी हंस-समारूढ़ा, सर्वाभरण-भूषिता।।१०
लक्ष्मी: पद्मासना देवी, पद्म-हस्ता हरिप्रिया।
श्वेत-रूप-धरा देवी, ईश्वरी वृष वाहना।।११

इत्येता मातर: सर्वा:, सर्व-योग-समन्विता।
नानाभरण-षोभाढया, नाना-रत्नोप-शोभिता:।।१२
श्रेष्ठैष्च मौक्तिकै: सर्वा, दिव्य-हार-प्रलम्बिभि:।
इन्द्र-नीलैर्महा-नीलै, पद्म-रागै: सुशोभने:।।१३

दृष्यन्ते रथमारूढा, देव्य: क्रोध-समाकुला:।
शंखं चक्रं गदां शक्तिं, हलं च मूषलायुधम्।।1१४
खेटकं तोमरं चैव, परशुं पाशमेव च।
कुन्तायुधं च खड्गं च, शार्गांयुधमनुत्तमम्।।१५

दैत्यानां देह नाशाय, भक्तानामभयाय च।
धारयन्त्यायुधानीत्थं, देवानां च हिताय वै।।१६
नमस्तेऽस्तु महारौद्रे ! महाघोर पराक्रमे !महाबले !
महोत्साहे ! महाभय विनाशिनि।।१७

त्राहि मां देवि दुष्प्रेक्ष्ये ! शत्रूणां भयविर्द्धनि !
प्राच्यां रक्षतु मामैन्द्री, आग्नेय्यामग्नि देवता।।१८
दक्षिणे चैव वाराही, नैऋत्यां खड्गधारिणी।
प्रतीच्यां वारूणी रक्षेद्, वायव्यां वायुदेवता।।१९

उदीच्यां दिशि कौबेरी, ऐशान्यां शूल-धारिणी।
ऊर्ध्वं ब्राह्मी च मां रक्षेदधस्ताद् वैष्णवी तथा।।२०
एवं दश दिशो रक्षेच्चामुण्डा शव-वाहना।
जया मामग्रत: पातु, विजया पातु पृष्ठत:।।२१

अजिता वाम पार्श्वे तु, दक्षिणे चापराजिता।
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता।।२२
मालाधरी ललाटे च, भ्रुवोर्मध्ये यशस्विनी।
नेत्रायोश्चित्र-नेत्रा च, यमघण्टा तु पार्श्वके।।२३

शंखिनी चक्षुषोर्मध्ये, श्रोत्रयोर्द्वार-वासिनी।
कपोलौ कालिका रक्षेत्, कर्ण-मूले च शंकरी।।२४
नासिकायां सुगन्धा च, उत्तरौष्ठे च चर्चिका।
अधरे चामृत-कला, जिह्वायां च सरस्वती।।२५

दन्तान् रक्षतु कौमारी, कण्ठ-मध्ये तु चण्डिका।
घण्टिकां चित्र-घण्टा च, महामाया च तालुके।।२६
कामाख्यां चिबुकं रक्षेद्, वाचं मे सर्व-मंगला।
ग्रीवायां भद्रकाली च, पृष्ठ-वंशे धनुर्द्धरी।।२७

नील-ग्रीवा बहि:-कण्ठे, नलिकां नल-कूबरी।
स्कन्धयो: खडि्गनी रक्षेद्, बाहू मे वज्र-धारिणी।।२८
हस्तयोर्दण्डिनी रक्षेदिम्बका चांगुलीषु च।
नखान् सुरेश्वरी रक्षेत्, कुक्षौ रक्षेन्नरेश्वरी।।२९

स्तनौ रक्षेन्महादेवी, मन:-शोक-विनाशिनी।
हृदये ललिता देवी, उदरे शूल-धारिणी।।३०
नाभौ च कामिनी रक्षेद्, गुह्यं गुह्येश्वरी तथा।
मेढ्रं रक्षतु दुर्गन्धा, पायुं मे गुह्य-वासिनी।।३१

कट्यां भगवती रक्षेदूरू मे घन-वासिनी।
जंगे महाबला रक्षेज्जानू माधव नायिका।।३२
गुल्फयोर्नारसिंही च, पाद-पृष्ठे च कौशिकी।
पादांगुली: श्रीधरी च, तलं पाताल-वासिनी।।३३

नखान् दंष्ट्रा कराली च, केशांश्वोर्ध्व-केशिनी।
रोम-कूपानि कौमारी, त्वचं योगेश्वरी तथा।।३४
रक्तं मांसं वसां मज्जामस्थि मेदश्च पार्वती।
अन्त्राणि काल-रात्रि च, पितं च मुकुटेश्वरी।।३५

पद्मावती पद्म-कोषे, कक्षे चूडा-मणिस्तथा।
ज्वाला-मुखी नख-ज्वालामभेद्या सर्व-सन्धिषु।।३६
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा।
अहंकारं मनो बुद्धिं, रक्षेन्मे धर्म-धारिणी।।३७

प्राणापानौ तथा व्यानमुदानं च समानकम्।
वज्र-हस्ता तु मे रक्षेत्, प्राणान् कल्याण-शोभना।।३८
रसे रूपे च गन्धे च, शब्दे स्पर्शे च योगिनी।
सत्वं रजस्तमश्चैव, रक्षेन्नारायणी सदा।।३९

आयू रक्षतु वाराही, धर्मं रक्षन्तु मातर:।
यश: कीर्तिं च लक्ष्मीं च, सदा रक्षतु वैष्णवी।।४०
गोत्रमिन्द्राणी मे रक्षेत्, पशून् रक्षेच्च चण्डिका।
पुत्रान् रक्षेन्महा-लक्ष्मीर्भार्यां रक्षतु भैरवी।।४१

धनं धनेश्वरी रक्षेत्, कौमारी कन्यकां तथा।
पन्थानं सुपथा रक्षेन्मार्गं क्षेमंकरी तथा।।४२
राजद्वारे महा-लक्ष्मी, विजया सर्वत: स्थिता।
रक्षेन्मे सर्व-गात्राणि, दुर्गा दुर्गाप-हारिणी।।४३

रक्षा-हीनं तु यत् स्थानं, वर्जितं कवचेन च।
सर्वं रक्षतु मे देवी, जयन्ती पाप-नाशिनी।।४४

॥ फल-श्रुति ॥
सर्वरक्षाकरं पुण्यं, कवचं सर्वदा जपेत्।
इदं रहस्यं विप्रर्षे ! भक्त्या तव मयोदितम्।।४५
देव्यास्तु कवचेनैवमरक्षित-तनु: सुधी:।
पदमेकं न गच्छेत् तु, यदीच्छेच्छुभमात्मन:।।४६

कवचेनावृतो नित्यं, यत्र यत्रैव गच्छति।
तत्र तत्रार्थ-लाभ: स्याद्, विजय: सार्व-कालिक:।।४७
यं यं चिन्तयते कामं, तं तं प्राप्नोति निश्चितम्।
परमैश्वर्यमतुलं प्राप्नोत्यविकल: पुमान्।।४८

निर्भयो जायते मर्त्य:, संग्रामेष्वपराजित:।
त्रैलोक्ये च भवेत् पूज्य:, कवचेनावृत: पुमान्।।४९
इदं तु देव्या: कवचं, देवानामपि दुर्लभम्।
य: पठेत् प्रयतो नित्यं, त्रि-सन्ध्यं श्रद्धयान्वित:।।५०

देवी वश्या भवेत् तस्य, त्रैलोक्ये चापराजित:।
जीवेद् वर्ष-शतं साग्रमप-मृत्यु-विवर्जित:।।५१
नश्यन्ति व्याधय: सर्वे, लूता-विस्फोटकादय:।
स्थावरं जंगमं वापि, कृत्रिमं वापि यद् विषम्।।५२

अभिचाराणि सर्वाणि, मन्त्र-यन्त्राणि भू-तले।
भूचरा: खेचराश्चैव, कुलजाश्चोपदेशजा:।।५३
सहजा: कुलिका नागा, डाकिनी शाकिनी तथा।
अन्तरीक्ष-चरा घोरा, डाकिन्यश्च महा-रवा:।।५४

ग्रह-भूत-पिशाचाश्च, यक्ष-गन्धर्व-राक्षसा:।
ब्रह्म-राक्षस-वेताला:, कूष्माण्डा भैरवादय:।।५५
नष्यन्ति दर्शनात् तस्य, कवचेनावृता हि य:।
मानोन्नतिर्भवेद् राज्ञस्तेजो-वृद्धि: परा भवेत्।।५६

यशो-वृद्धिर्भवेद् पुंसां, कीर्ति-वृद्धिश्च जायते।
तस्माज्जपेत् सदा भक्तया, कवचं कामदं मुने।।५७
जपेत् सप्तशतीं चण्डीं, कृत्वा तु कवचं पुर:।
निर्विघ्नेन भवेत् सिद्धिश्चण्डी-जप-समुद्भवा।।५८

यावद् भू-मण्डलं धत्ते ! स-शैल-वन-काननम्।
तावत् तिष्ठति मेदिन्यां, जप-कर्तुर्हि सन्तति:।।५९
देहान्ते परमं स्थानं, यत् सुरैरपि दुर्लभम्।
सम्प्राप्नोति मनुष्योऽसौ, महा-माया-प्रसादत:।।६०

तत्र गच्छति भक्तोऽसौ, पुनरागमनं न हि।
लभते परमं स्थानं, शिवेन सह मोदते ॐॐॐ।।६१



॥ श्री देवी चण्डी कवचम् सम्पूर्णाम ॥






॥ श्री देवी काली कवचम् ॥
॥ Shri Devi Kali Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ भैरव् उवाच ॥
कालिका या महाविद्या कथिता भुवि दुर्लभा ।
तथापि हृदये शल्यमस्ति देवि कृपां कुरु ॥ १॥
कवचन्तु महादेवि कथयस्वानुकम्पया ।
यदि नो कथ्यते मातर्व्विमुञ्चामि तदा तनुं ॥ २॥

॥ श्री देव्युवाच ॥
शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितं ।
न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥ ३॥
कालिका जगतां माता शोकदुःखविनाशिनी ।
विशेषतः कलियुगे महापातकहारिणी ॥ ४॥

काली मे पुरतः पातु पृष्ठतश्च कपालिनी ।
कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥ ५॥
विरोधिनी शिरः पातु विप्रचित्ता तु चक्षुषी ।
उग्रा मे नासिकां पातु कर्णौ चोग्रप्रभा मता ॥ ६॥

वदनं पातु मे दीप्ता नीला च चिबुकं सदा ।
घना ग्रीवां सदा पातु बलाका बाहुयुग्मकं ॥ ७॥
मात्रा पातु करद्वन्द्वं वक्षोमुद्रा सदावतु ।
मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवता ॥ ८॥

ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा ।
ऊरु माहेश्वरी नित्यं चामुण्डा पातु लिङ्गकं ॥ ९॥
कौमारी च कटीं पातु तथैव जानुयुग्मकं ।
अपराजिता च पादौ मे वाराही पातु चाङ्गुलीन् ॥ १०॥

सन्धिस्थानं नारसिंही पत्रस्था देवतावतु ।
रक्षाहीनन्तु यत्स्थानं वर्जितं कवचेन तु ॥ ११॥
तत्सर्वं रक्ष मे देवि कालिके घोरदक्षिणे ।
ऊर्द्धमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥ १२॥

हिंस्रेभ्यः सर्वदा पातु साधकञ्च जलाधिकात् ।
दक्षिणाकालिका देवी व्यपकत्वे सदावतु ॥ १३॥
इदं कवचमज्ञात्वा यो जपेद्देवदक्षिणां ।
न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥ १४॥

कवचेनावृतो नित्यं यत्र तत्रैव गच्छति ।
तत्र तत्राभयं तस्य न क्षोभं विद्यते क्वचित् ॥ १५॥



॥ इति श्री देवी काली कवचं समाप्तम् ॥






॥ श्री त्रैलोक्य मोहन काली कवचम् ॥
॥ Shri Trilokya Mohan Kali Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ श्री देव्युवाच ॥
देवदेवमहादेव संसारप्रीतिकारकः ।
सर्वविद्येश्वरीं विद्यां कालिकां कथयाद्भुताम् ॥ १॥

॥ श्री शिव उवाच ॥
श्रृणुदेवि महाविद्यां सर्वविद्योत्तमोत्तमाम् ।
सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥ २॥
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयीहरः ।
बभूवकमलानाथो विभुब्रह्मा प्रजापति ॥ ३॥

शचीस्वामीदेवनाथो यमोपिधर्मनायकः ।
त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥ ४॥
दिनस्वामिरविश्चन्द्रो निशापतिर्ग्रहेश्वरः ।
जलाधिपतिर्वरुणः कुबेरोपिधनेश्वरः ॥ ५॥

अव्याहतगतिर्वायुर्गजास्योविघ्ननायकः ।
वागीश्वरः सुराचार्यो ?? गुरुः कविः ॥ ६॥
एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये ।
तस्यास्तु कवचं दिव्यं मातृजारं विभावय ॥ ७॥

अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः,
अनुष्टुप् छन्दः, श्मशानकाली देवता,धर्मार्थकाममोक्षार्थे,
जपे विनियोगः । ललाटं पातु चक्रीं मे हरेणाराधितं सदा ।
नेत्रेमे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥ ८॥

क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा ।
क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥ ९॥
क्रीं स्वाहा श्रवणं पातु यमेनैवप्रपूजिता ।
क्रीं हूँ ह्रीं स्वाहा रसना गङ्गयासेवितावतु ॥ १०॥

दन्तपङ्क्ति सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम ।
भुक्तिमुक्ति प्रदा काली श्रिया नित्यं सुसेविता ॥ ११॥
ओष्टाधरं सदा पातु क्रीं क्रीं क्रीं
हूँ हूँह्रीं ह्रीं मम सर्वसिद्धिप्रदायिका ॥ १२॥

कण्ठं पातु महाकाली ॐ क्रीं ह्रीं मे स्वाहामम
चन्द्रेणाराधिता चतुर्वर्गफलप्रदा ॥ १३॥
हस्तयुग्मं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं
स्वाहासौख्यदा मोक्षदा काली वरुणेनैवसेविता ॥ १४॥

ॐ क्रीं हूँ ह्रीं फट् स्वाहा हृदयं पातु सर्वदा ।
सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥ १५॥
ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा हस्तयुग्मं सदावतु ।
वायुनोपासिताकाली यशोबल सुखप्रदा ॥ १६॥

क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् पातु जठरं मम ।
सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥ १७॥
क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममावतु ।
सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥ १८॥

लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं ।
शुक्रेणराधिता काली त्रैलोक्यजयदायिनी ॥ १९॥
पात्वण्ड कोशं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा ।
धरया सेविता विद्या सर्वरत्न प्रदायिनी ॥ २०॥

पातुं गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं स्वाहा ।
द्वादशीचमहाविद्या राघवेणार्चिता सदा ॥ २१॥
जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा ।
एकादशी महाविद्या मेघनादेन सेविता ॥ २२॥

क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेवतुद्वादशीच
महाविद्या प्रह्लादेनचसेविता ॥ २३॥
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाङ्गुलीः ।
पातु मे द्वादशीकाली क्षेत्रपालेन सेविता ॥ २४॥

क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा ।
च नखान्सर्वात्सदा पातु पञ्चदशीत् ग्रहेश्वरी ॥ २५॥
क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं मम
पृष्ठे सदा पातु षोडशी परमेश्वरी ॥ २६॥

क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि ।
मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणे कालिके ॥ २७॥
क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूँ हूँ सदावतु ।
ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममावतु ॥ २८॥

द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा ।
महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥ २९॥
सूर्यवंशेन सोमेन रामेणजग्निना ।
जयन्ते न सुमन्ते न बलिनानारदेन च ॥ ३०॥

बिभीषणेनबाणेन भृगुणाकश्यपेन च ।
कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥ ३१॥
मार्कण्डयेन ध्रुवेणैवद्रोणेन सत्यभामया ।
ऋष्यश्रृङ्गेन कर्णेन भारद्वाजेन संयुता ॥ ३२॥

सर्वेणाराधिता विद्या जरामृत्यु विनाशिनी ।
पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥ ३३॥
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रप्रभा दीप्ता घनत्विषा ॥ ३४॥

नीला घना बलाका च मात्रा मुद्रामितापि च ।
एताः सर्वा खड्गधरा मुण्डमाला विभूषणा ॥ ३५॥
हूँ हूँकारेट्टहासेन सर्वत्र पातु मां सदा ।
ब्रह्माणी पातु मां पूर्वे आग्नेया वैष्णवी तथा ॥ ३६॥

माहेश्वरी पातु याम्ये चामुण्डा नैऋते सदा ।
कौमारी वारुणे पातु वायव्ये अपराजिता ॥ ३७॥
वाराहीचोत्तरे पातु ईशान्यां नारसिंहिका ।
अध ऊर्ध्वे पातु काली पार्श्वेपृष्ठे च कालिका ॥ ३८॥

जलेस्थले च पाताले शयने भोजनेगृहे ।
राजस्थाने कानने च विवादे मरणे रणे ॥ ३९॥
पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा ।
शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥ ४०॥

यत्र यत्र भय प्राप्तिः सर्वत्र पातु कालिका ।
नक्षत्र तिथि वारेषु योगं करणयोरपि ॥ ४१॥
मासे पक्षे वत्सरे च दण्डेयामेनिमेषके ।
दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥ ४२॥

सर्वत्र कालिका पातु कालिका पातु सर्वदा ।
सकृद्यः श्रृणुयानित्यं कवचं शिव निर्मितम् ॥ ४३॥
सर्वपापं परित्यज्य गच्छेछिवस्यचालयम् ।
त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥ ४४॥

यः पठेत्साधकाधीशः सर्वकर्म जपान्वितः ।
सर्वधर्मेद्भवद्धर्मी सर्वविद्येश्वरेश्वरः ॥ ४५॥
कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः ।
कवित्वे व्यास सदृशो गणेशवच्छतीधरः ॥ ४६॥

कामदेव समोरूपे वायुतुल्यः पराक्रमे ।
महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥ ४७॥
बृहस्पतिसमोधीमां जरामृत्युविवर्जितः ।
सर्वज्ञः सर्वदर्शी च निःपापः सकलप्रियः ॥ ४८॥

अव्याहतगतिः शान्तो भार्यापुत्र समन्वितः ।
यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥ ४९॥
न शोकोनभय क्लेशो न रोगोन पराजयः ।
धनहानिर्विषादोय परिवारोभवेन्नहि ॥ ५०॥

सङ्ग्रामेषु जयेच्छत्रून्यथावह्निर्दहेद्वनं ।
ब्रह्मास्त्रादिनिवास्त्राणि पशवः कण्टकादमः ॥ ५१॥
तस्यदेहं न भिन्दति वज्राधिक भवेद्वपुः ।
ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥ ५२॥

सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् ।
तद्देहं न दहेदग्नि न तापयतिभास्करः ॥ ५३॥
न शोषयति वातोपि न क्लेदं कुरुतेपयः ।
पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥ ५४॥

जलसूर्येन्दुवातानां स्तम्भकेनात्र संशयः ।
बहु किं कथयिष्यामि सर्वसिद्धिमुपा लभेत् ॥ ५५॥
राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् ।
मोहन स्तम्भनाकर्षमारणोच्चाटनं भवेत् ॥ ५६॥

काकवन्द्या च यानारी वन्द्या वा मृतपुत्रिका ।
कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥ ५७॥
तदापुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः ।
स्वामिनो वल्लभासापि धनधान्य सुतान्विता ॥ ५८॥

इदं कवचमज्ञात्वा यो जपेत्कालिकामनुं ।
ध्यानेनकोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥ ५९॥
पदे पदे भवेद्दुखं लोकानानिन्दतो ध्रुवम् ।
इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥ ६०॥

गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् ।
तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥ ६१॥
य इदं कवचं दिव्यं प्रकाश्य शिवहाभवेत् ।
भक्ताय श्रेष्ठपुत्राय साधकाय य प्रकाशयेत् ॥ ६२॥



॥ इति श्री त्रैलोक्य मोहन काली कवचम् सम्पूर्णम् ॥






॥ वैरिनाशनं श्री कालिका कवचम् ॥
॥ Vairy Nashak Shri Kali Kavach ॥


॥ ॐ गण गणपतये नमः ॥

कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १॥
कैलासशिखरारूढं शङ्करं वरदं शिवम् ।
देवी पप्रच्छ सर्वज्ञं सर्वदेव महेश्वरम् ॥ १॥

॥ पार्वत्युवाच ॥
भगवन् देवदेवेश देवानां भोगद प्रभो ।
प्रब्रूहि मे महादेव गोप्यं चेद्यदि हे प्रभो ॥ २॥
शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् ।
परमैश्वर्यमतुलं लभेद्येन हि तद्वद ॥ ३॥

॥ भैरव उवाच ॥
वक्ष्यामि ते महादेवि सर्वधर्मविदां वरे ।
अद्भुतं कवचं देव्याः सर्वकामप्रसाधकम् ॥ ४॥
विशेषतः शत्रुनाशं सर्वरक्षाकरं नृणाम् ।
सर्वारिष्टप्रशमनं सर्वाभद्रविनाशनम् ॥ ५॥

सुखदं भोगदं चैव वशीकरणमुत्तमम् ।
शत्रुसंघाः क्षयं यान्ति भवन्ति व्याधिपीडिअताः ॥ ६॥
दुःखिनो ज्वरिणश्चैव स्वाभीष्टद्रोहिणस्तथा ।
भोगमोक्षप्रदं चैव कालिकाकवचं पठेत् ॥ ७॥

ॐ अस्य श्रीकालिकाकवचस्य भैरव ऋषिः ।
अनुष्टुप्छन्दः ।श्रीकालिका देवता । शत्रुसंहारार्थ जपे विनियोगः ।

॥ ध्यानम् ॥
ॐ ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।
चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥ ८॥
नीलोत्पलदलश्यामां शत्रुसंघविदारिणीम् ।
नरमुण्डं तथा खड्गं कमलं च वरं तथा ॥ ९॥

निर्भयां रक्तवदनां दंष्ट्रालीघोररूपिणीम् ।
साट्टहासाननां देवीं सर्वदां च दिगम्बरीम् ॥ १०॥
शवासनस्थितां कालीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महाकालीं ततस्तु कवचं पठेत् ॥ ११॥

ॐ कालिका घोररूपा सर्वकामप्रदा शुभा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ १२॥
ॐ ह्रीं ह्रींरूपिणीं चैव ह्रां ह्रीं ह्रांरूपिणीं तथा ।
ह्रां ह्रीं क्षों क्षौंस्वरूपा सा सदा शत्रून्विदारयेत् ॥ १३॥

श्रीं-ह्रीं ऐंरूपिणी देवी भवबन्धविमोचनी ।
हुंरूपिणी महाकाली रक्षास्मान् देवि सर्वदा ॥ १४॥
यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः ।
वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम् ॥ १५॥

ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका ।
कौमार्यैन्द्री च चामुण्डा खादन्तु मम विद्विषः ॥ १६॥
सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी ।
मुण्डमालावृताङ्गी च सर्वतः पातु मां सदा ॥ १७॥

ह्रीं ह्रीं ह्रीं कालिके घोरे दंष्ट्रेव रुधिरप्रिये ।
रुधिरापूर्णवक्त्रे च रुधिरेणावृतस्तनि ॥ १८॥

मम शत्रून् खादय खादय हिंस हिंस मारय मारय
भिन्धि भिन्धि छिन्धि छिन्धि उच्चाटय
उच्चाटय द्रावय द्रावय शोषय शोषय स्वाहा ।
ह्रां ह्रीं कालिकायै मदीयशत्रून् समर्पयामि स्वाहा ।
ॐ जय जय किरि किरि किटि किटि कट कट
मर्द मर्द मोहय मोहय हर हर मम रिपून ध्वंस ध्वंस
भक्षय भक्षय त्रोटय त्रोटय यातुधानान्चा मुण्डे सर्वजनान्
राज्ञो राजपुरुषान् स्त्रियो मम वश्यान् कुरु कुरुतनु तनु
धान्यं धनं मेऽश्वान् गजान् रत्नानि दिव्यकामिनीः पुत्रान्
राजश्रियं देहि यच्छ क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा ।
इत्येतत् कवचं दिव्यं कथितं शम्भुना पुरा ।
ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति शत्रवः ॥ १९॥

वैरिणः प्रलयं यान्ति व्याधिता या भवन्ति हि ।
बलहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा ॥ २०॥
सहस्रपठनात्सिद्धिः कवचस्य भवेत्तदा ।
तत्कार्याणि च सिध्यन्ति यथा शङ्करभाषितम् ॥ २१॥

श्मशानाङ्गारमादाय चूर्णं कृत्वा प्रयत्नतः ।
पादोदकेन पिष्ट्वा तल्लिखेल्लोहशलाकया ॥ २२॥
भूमौ शत्रून् हीनरूपानुत्तराशिरसस्तथा ।
हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत् ॥ २३॥

शत्रोः प्राणप्रियष्ठां तु कुर्यान्मन्त्रेण मन्त्रवित् ।
हन्यादस्त्रं प्रहारेण शत्रो गच्छ यमक्षयम् ॥ २४॥
ज्वलदङ्गारतापेन भवन्ति ज्वरिता भृशम् ।
प्रोञ्छनैर्वामपादेन दरिद्रो भवति ध्रुवम् ॥ २५॥

वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् ।
परमैश्वर्यदं चैव पुत्रपौत्रादिवृद्धिदम् ॥ २६॥
प्रभातसमये चैव पूजाकाले च यत्नतः ।
सायङ्काले तथा पाठात्सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २७॥

शत्रुरुच्चाटनं याति देशाद्वा विच्युतो भवेत् ।
पश्चात्किङ्करतामेति सत्यं सत्यं न संशयः ॥ २८॥
शत्रुनाशकरे देवि सर्वसम्पत्करे शुभे ।
सर्वदेवस्तुते देवि कालिके! त्वां नमाम्यहम् ॥ २९॥



॥ इति श्री कालिका कवचम् सम्पूर्णम् ॥






॥ श्री बगलामुखी कवचं ॥
॥ Shri Baglamukhi Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ अथ ध्यानम् ॥
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् ।
गदाभि घातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥

॥ अथ बगलामुखी कवचम् ॥
श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।
इदानी श्रोतुमिच्छामि कवचं वद मे प्रभो ॥ १ ॥
वैरिनाशकरं दिव्यं सर्वाSशुभविनाशनम् ।
शुभदं स्मरणात्पुण्यं त्राहि मां दु:खनाशनम् ॥२॥

॥ श्री भैरव उवाच ॥
कवचं शृणु वक्ष्यामि भैरवीप्राणवल्लभम् ।
पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ॥३॥

ॐ अस्य श्री बगलामुखीकवचस्य नारद ऋषि: ।
अनुष्टप्छन्द: । बगलामुखी देवता । लं बीजम् ।
ऐं कीलकम् पुरुषार्थचष्टयसिद्धये जपे विनियोग:।

ॐ शिरो मे बगला पातु हृदयैकाक्षरी परा ।
ॐ ह्ली ॐ मे ललाटे च बगला वैरिनाशिनी ॥१॥
गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी ।
वैरिजिह्वाधरा पातु कण्ठं मे वगलामुखी ॥२॥

उदरं नाभिदेशं च पातु नित्य परात्परा ।
परात्परतरा पातु मम गुह्यं सुरेश्वरी ॥३॥
हस्तौ चैव तथा पादौ पार्वती परिपातु मे ।
विवादे विषमे घोरे संग्रामे रिपुसङ्कटे ॥४॥

पीताम्बरधरा पातु सर्वाङ्गी शिवनर्तकी ।
श्रीविद्या समय पातु मातङ्गी पूरिता शिवा ॥५॥
पातु पुत्रं सुतांश्चैव कलत्रं कालिका मम ।
पातु नित्य भ्रातरं में पितरं शूलिनी सदा ॥६॥

रंध्र हि बगलादेव्या: कवचं मन्मुखोदितम् ।
न वै देयममुख्याय सर्वसिद्धिप्रदायकम् ॥ ७॥
पाठनाद्धारणादस्य पूजनाद्वाञ्छतं लभेत् ।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥८॥

पिवन्ति शोणितं तस्य योगिन्य: प्राप्य सादरा: ।
वश्ये चाकर्षणो चैव मारणे मोहने तथा ॥९॥
महाभये विपत्तौ च पठेद्वा पाठयेत्तु य: ।
तस्य सर्वार्थसिद्धि: स्याद् भक्तियुक्तस्य पार्वति ॥१०॥



॥ इति श्री बगलामुखी कवचं सम्पूर्णम् ॥






॥ श्री दुर्गा देवि कवचम् ॥
॥ Shri Durga Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ ईश्वर उवाच ॥
श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १॥
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ २॥

उमादेवी शिरः पातु ललाटे शूलधारिणी ।
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ ३॥
सुगन्धा नासिके पातु वदनं सर्वधारिणी ।
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥ ४॥

अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
हृदयं ललितादेवी उदरं सिंहवाहिनी ॥ ५॥
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ।
महाबला च जङ्घे द्वे पादौ भूतलवासिनी ॥ ६॥

एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तुते ॥ ७॥



॥ इति श्री दुर्गा कवचम् सम्पूर्णम् ॥






॥ श्री कामाख्या कवचम् ॥
॥ Shri Kamakheya Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ कामाख्या ध्यानम् ॥
रविशशियुतकर्णा कुंकुमापीतवर्णा
मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रहस्ता
प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥

अरुणकमलसंस्था रक्तपद्मासनस्था
नवतरुणशरीरा मुक्तकेशी सुहारा ।
शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा
शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥

विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
दलितकरकदन्ता सामिचन्द्रावतंसा ।
मनसिज-दृशदिस्था योनिमुद्रालसन्ती
पवनगगनसक्ता संश्रुतस्थानभागा ।
चिन्ता चैवं दीप्यदग्निप्रकाशा
धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥

॥ कामाख्या-कवचम् ॥
ॐ कामाख्याकवचस्य मुनिर्बृहस्पतिः स्मृतः ।
देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ॥
विनियोगः सर्वसिद्धौ तञ्च शृण्वन्तु देवताः ।
शिराः कामेश्वरी देवी कामाख्या चक्षूषी मम ॥

शारदा कर्णयुगलं त्रिपुरा वदनं तथा ।
कण्ठे पातु माहामाया हृदि कामेश्वरी पुनः ॥
कामाख्या जठरे पातु शारदा पातु नाभितः ।
त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ॥

गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ।
जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः ॥
माहामाया पादयुगे नित्यं रक्षतु कामदा ।
केशे कोटेश्वरि पातु नासायां पातु दीर्घिका ॥

भैरवी (शुभगा) दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः ।
बाह्वोर्मे ललिता पातु पाण्योस्तु वनवासिनी ॥
विन्ध्यवासिन्यङ्गुलीषु श्रीकामा नखकोटिषु ।
रोमकूपेषु सर्वेषु गुप्तकामा सदावतु ॥

पादाङ्गुली पार्ष्णिभागे पातु मां भुवनेश्वरी ।
जिह्वायां पातु मां सेतुः कः कण्टाभ्यन्तरेऽवतु ॥
पातु नश्चान्तरे वक्षः ईः पातु जठरान्तरे ।
सामीन्दुः पातु मां वस्तौ विन्दुर्विन्द्वन्तरेऽवतु ॥

ककारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा ।
लकारः सर्वनाडिषु ईकारः सर्वसन्धिषु ॥
चन्द्रः स्नायुषु मां पातु विन्दुर्मज्जासु सन्ततम् ।
पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा ॥

वारुणे चैव वायव्यां कौबेरे हरमन्दिरे ।
अकाराद्यास्तु वैष्णव्याः अष्टौ वर्णास्तु मन्त्रगाः ॥
पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ।
ऊर्द्ध्वाधः पातु सततं मां तु सेतुद्वये सदा ॥

नवाक्षराणि मन्त्रेषु शारदा मन्त्रगोचरे ।
नवस्वरास्तु मां नित्यं नासादिषु समन्ततः ॥
वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ।
नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ॥
तत् सेतु सततं पातु क्रव्याद्भ्यो मान्निवारकम् नमः
कामेश्वरीं देवीं महामायां जगन्मयीम् ।
या भूत्वा प्रकृतिर्नित्या तनोति जगदायतम् ॥

कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां
श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कमापीतवर्णाम् ।
ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या मग्नौ
विन्द्वन्तमन्त्रप्रियतमविषयां नौमि विन्ध्याद्र्यतिस्थाम् ॥

मध्ये मध्यस्य भागे सततविनमिता भावहारावली या
लीलालोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा ।
विद्या विद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या
नित्यं पायात् पवित्रप्रणववरकरा कामपूर्वेश्वरी नः ॥

इति हरेः कवचं तनुकेस्थितं शमयति वै शमनं तथा यदि ।
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥
इतीदं कवचं यस्तु कामाख्यायाः पठेद्बुधः ।
सुकृत् तं तु महादेवी तनु व्रजति नित्यदा ॥

नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा ।
नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥
दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः ।
आवर्तयन् शतं देवीमन्दिरे मोदते परे ॥

यथा तथा भवेद्बद्धः सङ्ग्रामेऽन्यत्र वा बुधः ।
तत्क्षणादेव मुक्तः स्यात् स्मारणात् कवचस्य तु ॥



॥ इति श्री कामाख्या कवचम् सम्पूर्णम ॥






॥ श्री तारा कवचम् ॥
॥ Shri Tara Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ ईश्वर उवाच ॥
कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी ।
दिव्यं हि कवचं तस्याः श्रृणुष्व सर्वकामदम् ॥ १॥

अस्य ताराकवचस्य अक्षोभ्य ऋषिः , त्रिष्टुप् छन्दः,
भगवती तारा देवता , सर्वमन्त्रसिद्धिसमृद्धये जपे विनियोगः ।
प्रणवो मे शिरः पातु ब्रह्मरूपा महेश्वरी ।
ललाटे पातु ह्रींकारो बीजरूपा महेश्वरी ॥ २॥

स्त्रींकारो वदने नित्यं लज्जारूपा महेश्वरी ।
हूँकारः पातु हृदये भवानीरूपशक्तिधृक् ॥ ३॥
फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा ।
खर्वा मां पातु देवेशी गण्डयुग्मे भयापहा ॥ ४॥

निम्नोदरी सदा स्कन्धयुग्मे पातु महेश्वरी ।
व्याघ्रचर्मावृता कट्यां पातु देवी शिवप्रिया ॥ ५॥
पीनोन्नतस्तनी पातु पार्श्वयुग्मे महेश्वरी ।
रक्तवर्तुलनेत्रा च कटिदेशे सदाऽवतु ॥ ६॥

ललजिह्वा सदा पातु नाभौ मां भुवनेश्वरी ।
करालास्या सदा पातु लिङ्गे देवी हरप्रिया ॥ ७॥
पिङ्गोग्रैकजटा पातु जङ्घायां विघ्ननाशिनी ।
प्रेतखर्परभृद्देवी जानुचक्रे महेश्वरी ॥ ८॥

नीलवर्णा सदा पातु जानुनी सर्वदा मम ।
नागकुण्डलधर्त्री च पातु पादयुगे ततः ॥ ९॥
नागहारधरा देवी सर्वाङ्गं पातु सर्वदा ।
नागकङ्कधरा देवी पातु प्रान्तरदेशतः ॥ १०॥

चतुर्भुजा सदा पातु गमने शत्रुनाशिनी ।
खड्गहस्ता महादेवी श्रवणे पातु सर्वदा ॥ ११॥
नीलाम्बरधरा देवी पातु मां विघ्ननाशिनी ।
कर्त्रिहस्ता सदा पातु विवादे शत्रुमध्यतः ॥ १२॥

ब्रह्मरूपधरा देवी सङ्ग्रामे पातु सर्वदा ।
नागकङ्कणधर्त्री च भोजने पातु सर्वदा ॥ १३॥
शवकर्णा महादेवी शयने पातु सर्वदा ।
रासनधरा देवी निद्रायां पातु सर्वदा ॥ १४॥

धनुर्बाणधरा देवी पातु मां विघ्नसङ्कुले ।
नागाञ्चितकटी पातु देवी मां सर्वकर्मसु ॥ १५॥
छिन्नमुण्डधरा देवी कानने पातु सर्वदा ।
चितामध्यस्थिता देवी मारणे पातु सर्वदा ॥ १६॥

द्वीपिचर्मधरा देवी पुत्रदारधनादिषु ।
अलङ्कारान्विता देवी पातु मां हरवल्लभा ॥ १७॥
रक्ष रक्ष नदीकुञ्जे हूं हूं फट् सुसमन्विते ।
बीजरूपा महादेवी पर्वते पातु सर्वदा ॥ १८॥

मणिभृद्वज्रिणी देवी महाप्रतिसरे तथा ।
रक्ष रक्ष सदा हूं हूं ॐ ह्रीं स्वाहा महेश्वरी ॥ १९॥
पुष्पकेतुरजार्हेति कानने पातु सर्वदा ।
ॐ ह्रीं वज्रपुष्पं हुं फट् प्रान्तरे सर्वकामदा ॥ २०॥

ॐ पुष्पे पुष्पे महापुष्पे पातु पुत्रान्महेश्वरी ।
हूं स्वाहा शक्तिसंयुक्ता दारान् रक्षतु सर्वदा ॥ २१॥
ॐ आं हूं स्वाहा महेशानी पातु द्यूते हरप्रिया ।
ॐ ह्रीं सर्वविघ्नोत्सारिणी देवी विघ्नान्मां सदाऽवतु ॥ २२॥

ॐ पवित्रवज्रभूमे हुंफट्स्वाहा समन्विता ।
पूरिका पातु मां देवी सर्वविघ्नविनाशिनी ॥ २३॥
ॐ आः सुरेखे वज्ररेखे हुंफट्स्वाहासमन्विता ।
पाताले पातु सा देवी लाकिनी नामसंज्ञिका ॥ २४॥

ह्रींकारी पातु मां पूर्वे शक्तिरूपा महेश्वरी ।
स्त्रींकारी पातु देवेशी वधूरूपा महेश्वरी ॥ २५॥
हूंस्वरूपा महादेवी पातु मां क्रोधरूपिणी ।
फट्स्वरूपा महामाया उत्तरे पातु सर्वदा ॥ २६॥

पश्चिमे पातु मां देवी फट्स्वरूपा हरप्रिया ।
मध्ये मां पातु देवेशी हूंस्वरूपा नगात्मजा ॥ २७॥
नीलवर्णा सदा पातु सर्वतो वाग्भवा सदा ।
भवानी पातु भवने सर्वैश्वर्यप्रदायिनी ॥ २८॥

विद्यादानरता देवी वक्त्रे नीलसरस्वती ।
शास्त्रे वादे च सङ्ग्रामे जले च विषमे गिरौ ॥ २९॥
भीमरूपा सदा पातु श्मशाने भयनाशिनी ।
भूतप्रेतालये घोरे दुर्गमा श्रीघनाऽवतु ॥ ३०॥

पातु नित्यं महेशानी सर्वत्र शिवदूतिका ।
कवचस्य माहात्म्यं नाहं वर्षशतैरपि ॥ ३१॥
शक्नोमि गदितुं देवि भवेत्तस्य फलं च यत् ।
पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा ॥ ३२॥

न विद्यते भयं तस्य नृपपूज्यो भवेच्च सः ।
शुचिर्भूत्वाऽशुचिर्वापि कवचं सर्वकामदम् ॥ ३३॥
प्रपठन् वा स्मरन्मर्त्यो दुःखशोकविवर्जितः ।
सर्वशास्त्रे महेशानि कविराड् भवति ध्रुवम् ॥ ३४॥

सर्ववागीश्वरो मर्त्यो लोकवश्यो धनेश्वरः ।
रणे द्यूते विवादे च जयस्तत्र भवेद् ध्रुवम् ॥ ३५॥
पुत्रपौतान्वितो मर्त्यो विलासी सर्वयोषिताम् ।
शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा ॥ ३६॥

गर्वी खर्वी भवत्येव वादी स्खलति दर्शनात् ।
मृत्युश्च वश्यतां याति दासास्तस्यावनीभुजः ॥ ३७॥
प्रसङ्गात्कथितं सर्वं कवचं सर्वकामदम् ।
प्रपठन्वा स्मरन्मर्त्यः शापानुग्रहणे क्षमः ॥ ३८॥

आनन्दवृन्दसिन्धूनामधिपः कविराड् भवेत् ।
सर्ववागिश्वरो मर्त्यो लोकवश्यः सदा सुखी ॥ ३९॥
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् ।
तत्रापि कवचं देवि दुर्लभं भुवनत्रये ॥ ४०॥

गुरुर्देवो हरः साक्षात्तत्पत्नी तु हरप्रिया ।
अभेदेन भजेद्यस्तु तस्य सिद्धिदूरतः ॥ ४१॥
मन्त्राचारा महेशानि कथिताः पूर्ववत्प्रिये ।
नाभौ ज्योतिस्तथा रक्तं हृदयोपरि चिन्तयेत् ॥ ४२॥

ऐश्वर्यं सुकवित्वं च महावागिश्वरो नृपः ।
नित्यं तस्य महेशानि महिलासङ्गमं चरेत् ॥ ४३॥
पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा ।
शक्तियुक्तो भवेन्मर्त्यः सिद्धो भवति नान्यथा ॥ ४४॥

ब्रह्मा विष्णुश्च रुद्रश्च ये देवासुरमानुषाः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ॥ ४५॥
स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः ।
प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम् ॥ ४६॥

विघ्नात्मकाश्च ये देवाः स्वर्गे मर्त्ये रसातले ।
प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम् ॥ ४७॥
इति ते कथितं देवि मया सम्यक्प्रकीर्तितम् ।
भुक्तिमुक्तिकरं साक्षात्कल्पवृक्षस्वरूपकम् ॥ ४८॥

आसाद्याद्यगुरुं प्रसाद्य य इदं कल्पद्रुमालम्बनं
मोहेनापि मदेन चापि रहितो जाड्येन वा युज्यते ।
सिद्धोऽसौ भुवि सर्वदुःखविपदां पारं प्रयात्यन्तके
मित्रं तस्य नृपाश्च देवि विपदो नश्यन्ति तस्याशु च ॥ ४९॥

तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि वै भुवि ।
तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद् ध्रुवम् ॥ ५०॥
इदं कवचमज्ञात्वा तारां यो भजते नरः ।
अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः ॥ ५१॥

लिखित्वा धारयेद्यस्तु कण्ठे वा मस्तके भुजे ।
तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ॥ ५२॥
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा ।
यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः ॥ ५३॥

अष्टम्यां मङ्गलदिने चतुर्द्दश्यामथापि वा ।
सन्ध्यायां देवदेवेशि लिखेद्यन्त्रं समाहितः ॥ ५४॥
मघायां श्रवणे वापि रेवत्यां वा विशेषतः ।
सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ॥ ५५॥

मीनराशौ गुरौ याते वृश्चिकस्थे शनैश्चरे ।
लिखित्वा धारयेद्यस्तु उत्तराभिमुखो भवेत् ॥ ५६॥
श्मशाने प्रान्तरे वापि शून्यागारे विशेषतः ।
निशायां वा लिखेन्मन्त्रं तस्य सिद्धिरचञ्चला ॥ ५७॥

भूर्जपत्रे लिखेन्मन्त्रं गुरुणा च महेश्वरि ।
ध्यानधारणयोगेन धारयेद्यस्तु भक्तितः ॥ ५८॥
अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ॥ ५९॥



॥ इति श्री तारा कवचं सम्पूर्णम् ॥






॥ श्री कमला कवचम् ॥
॥ Shri Kamla Kavach ॥


॥ ॐ गण गणपतये नमः ॥

ॐ अस्याश्चतुरक्षराविष्णुवनितायाः
कवचस्य श्रीभगवान् शिव ऋषीः ।
अनुष्टुप्छन्दः । वाग्भवा देवता ।
वाग्भवं बीजम् । लज्जा शक्तिः ।
रमा कीलकम् । कामबीजात्मकं कवचम् ।
मम सुकवित्वपाण्डित्यसमृद्धिसिद्धये पाठे विनियोगः ।
ऐङ्कारो मस्तके पातु वाग्भवां सर्वसिद्धिदा ।
ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ १॥

जिह्वायां मुखवृत्ते च कर्णयोर्दन्तयोर्नसि ।
ओष्ठाधारे दन्तपङ्क्तौ तालुमूले हनौ पुनः ॥ २॥
पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ।
कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ॥ ३॥

हृदये मणिबन्धे च ग्रीवायां पार्श्वर्योद्वयोः ।
पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा ॥ ४॥
उपस्थे च नितम्बे च नाभौ जंघाद्वये पुनः ।
जानुचक्रे पदद्वन्द्वे घुटिकेऽङ्गुलिमूलके ॥ ५॥

स्वधा तु प्राणशक्त्यां वा सीमन्यां मस्तके तथा ।
सर्वाङ्गे पातु कामेशी महादेवी समुन्नतिः ॥ ६॥
पुष्टिः पातु महामाया उत्कृष्टिः सर्वदाऽवतु ।
ऋद्धिः पातु सदा देवी सर्वत्र शम्भुवल्लभा ॥ ७॥

वाग्भवा सर्वदा पातु पातु मां हरगेहिनी ।
रमा पातु महादेवी पातु माया स्वराट् स्वयम् ॥ ८॥
सर्वाङ्गे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी ।
विजया पातु भवने जया पातु सदा मम ॥ ९॥

शिवदूती सदा पातु सुन्दरी पातु सर्वदा ।
भैरवी पातु सर्वत्र भेरुण्डा सर्वदाऽवतु ॥ १०॥
त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु ।
पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु ॥ ११॥

नवदुर्गाः सदा पातु कामाख्या सर्वदाऽवतु ।
योगिन्यः सर्वदा पातु मुद्राः पातु सदा सम ॥ १२॥
मात्राः पातु सदा देव्यश्चक्रस्था योगिनी गणाः ।
सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा ॥ १३॥

पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ॥



॥ इति श्री कमला कवचं सम्पूर्णम् ॥






॥ अलभ्य श्री गायत्री कवचम् ॥
॥ Alabhya Shri Gayatri Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ विनियोगः ॥
ॐ अस्य श्रीगायत्रीकवचस्य ब्रह्माविष्णुरुद्राः ऋषयः ।
ऋग्यजुःसामाथर्वाणि छन्दांसि । परब्रह्मस्वरूपिणी गायत्री देवता ।
भूः बीजम् । भुवः शक्तिः । स्वः कीलकम् । var सुवः कीलकम् ।
चतुर्विंशत्यक्षरा श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ।

॥ ध्यानं ॥
वस्त्राभां कुण्डिकां हस्तां, शुद्धनिर्मलज्योतिषीम् ।
सर्वतत्त्वमयीं वन्दे, गायत्रीं वेदमातरम् ॥

मुक्ताविद्रुमहेमनीलधवलैश्छायैः मुखेस्त्रीक्षणैः ।
युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ॥

गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणैः ।
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

॥ कवच पाठः ॥
ॐ ॐ ॐ ॐ भूः ॐ ॐ भुवः ॐ ॐ स्वः ॐ ॐ त
ॐ ॐ त्स ॐॐ वि ॐ ॐ तु ॐ ॐ र्व ॐ ॐ रे
ॐ ॐ ण्यं ॐ ॐ भ ॐ ॐ र्गो ॐॐ दे ॐ ॐ व
ॐ ॐ स्य ॐ ॐ धी ॐ ॐ म ॐ ॐ हि ॐ ॐ धि
ॐॐ यो ॐ ॐ यो ॐ ॐ नः ॐ ॐ प्र ॐ ॐ चो
ॐ ॐ द ॐॐ या ॐ ॐ त् ॐ ॐ ।
ॐ ॐ ॐ ॐ भूः ॐ पातु मे मूलं चतुर्दलसमन्वितम् ।
ॐ भुवः ॐ पातु मे लिङ्गं सज्जलं षट्दलात्मकम् ।
ॐ स्वः ॐ पातु मे कण्ठं साकाशं दलषोडशम् । सुवः
ॐ त ॐ पातु मे रूपं ब्राह्मणं कारणं परम् ।
ॐ त्स ॐ ब्रह्मरसं पातु मे सदा मम ।
ॐ वि ॐ पातु मे गन्धं सदा शिशिरसंयुतम् ।
ॐ तु ॐ पातु मे स्पर्शं शरीरस्य कारणं परम् ।
ॐ र्व ॐ पातु मे शब्दं शब्दविग्रहकारणम् ।
ॐ रे ॐ पातु मे नित्यं सदा तत्त्वशरीरकम् ।
ॐ ण्यं ॐ पातु मे अक्षं सर्वतत्त्वैककारणम् ।
ॐ भ ॐ पातु मे श्रोत्रं शब्दश्रवणैककारणम् ।
ॐ र्गो ॐ पातु मे घ्राणं गन्धोत्पादानकारणम् ।
ॐ दे ॐ पातु मे चास्यं सभायां शब्दरूपिणीम् ।
ॐ व ॐ पातु मे बाहुयुगलं च कर्मकारणम् ।
ॐ स्य ॐ पातु मे लिङ्गं षट्दलयुतम् ।
ॐ धी ॐ पातु मे नित्यं प्रकृति शब्दकारणम् ।
ॐ म ॐ पातु मे नित्यं नमो ब्रह्मस्वरूपिणीम् ।
ॐ हि ॐ पातु मे बुद्धिं परब्रह्ममयं सदा ।
ॐ धि ॐ पातु मे नित्यमहङ्कारं यथा तथा ।
ॐ यो ॐ पातु मे नित्यं जलं सर्वत्र सर्वदा ।
ॐ यो ॐ पातु मे नित्यं जलं सर्वत्र सर्वदा ।
ॐ नः ॐ पातु मे नित्यं तेजःपुञ्जो यथा तथा ।
ॐ प्र ॐ पातु मे नित्यमनिलं कायकारणम् ।
ॐ चो ॐ पातु मे नित्यमाकाशं शिवसन्निभम् ।
ॐ द ॐ पातु मे जिह्वां जपयज्ञस्य कारणम् ।
ॐ यात् ॐ पातु मे नित्यं शिवं ज्ञानमयं सदा ।
ॐ तत्त्वानि पातु मे नित्यं, गायत्री परदैवतम् ।
कृष्णं मे सततं पातु, ब्रह्माणि भूर्भुवः स्वरोम् ॥

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो
देवस्य धीमहि धियो यो नः प्रचोदयात् ।

ॐ जातवेदसे सुनवाम सोममाराती यतो निदहाति वेदाः ।
स नः पर्षदति दुर्गाणि विश्वा नावेवं सिन्धुं दुरितात्यग्निः ।
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
ऊर्वारिकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॥

ॐ नमस्ते तुरीयाय सर्शिताय पदाय परो रजसेऽसावदों मा प्रापत ॥



॥ इति श्री कवचं गायत्री सम्पूर्णा ॥






॥ श्री गायत्री कवचम् १ ॥ –
॥ Shri Gayatri Kavchan 1 ॥


॥ ॐ गण गणपतये नमः ॥

॥ याज्ञवल्क्य उवाच ॥
स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम ।
चतुःषष्ठिकलानं च पातकानां च तद्वद ॥ १॥
मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ।
देहं च देवतारूपं मन्त्ररूपं विशेषतः ॥ २॥

क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ।

॥ ब्रह्मोवाच ॥
गायत्र्याः कवचस्यास्य ब्रह्मा विष्णुः शिवो ऋषिः ॥ ३॥
ऋग्यजुःसामाथर्वाणि छन्दांसि परिकीर्तिताः ।
परब्रह्मस्वरूपा सा गायत्री देवता स्मृता ॥ ४॥

रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ।
सर्वं सर्वत्र संरक्षेत्सर्वाङ्गं भुवनेश्वरी ॥ ५॥
बीजं भर्गश्च युक्तिश्च धियः कीलकमेव च ।
पुरुषार्थविनियोगो यो नश्च परिकीर्त्तितः ॥ ६॥

ऋषिं मूर्ध्नि न्यसेत्पूर्वं मुखे छन्द उदीरितम् ।
देवतां हृदि विन्यस्य गुह्ये बीजं नियोजयेत् ॥ ७॥
शक्तिं विन्यस्य पदयोर्नाभौ तु कीलकं न्यसेत् ।
द्वात्रिंशत्तु महाविद्याः साङ्ख्यायनसगोत्रजाः ॥ ८॥

द्वादशलक्षसंयुक्ता विनियोगाः पृथक्पृथक् ।
एवं न्यासविधिं कृत्वा कराङ्गं विधिपूर्वकम् ॥ ९॥
व्याहृतित्रयमुच्चार्य ह्यनुलोमविलोमतः ।
चतुरक्षरसंयुक्तं कराङ्गन्यासमाचरेत् ॥ १०॥

आवाहनादिभेदं च दश मुद्राः प्रदर्शयेत् ।
सा पातु वरदा देवी अङ्गप्रत्यङ्गसङ्गमे ॥ ११॥
ध्यानं मुद्रां नमस्कारं गुरुमन्त्रं तथैव च ।
संयोगमात्मसिद्धिं च षड्विधं किं विचारयेत् ॥ १२॥

अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः,
ऋग्यजुःसामाधर्वाणि छन्दांसि, परब्रह्मस्वरूपिणी
गायत्री देवता, भूर्बीजं, भुवः शक्तिः, स्वाहा कीलकं,
श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ॥

ॐ भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः ।
ॐ भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा ।
ॐ भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् ।
ॐ भूर्भुवः स्वः धीमहीति कवचाय हुम् ।
ॐ भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् ।
ॐ भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ॥

वर्णास्त्रां कुण्डिकाहस्तां शुद्धनिर्मलज्योतिषीम्म् ।
सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ॥ १३॥

॥ अथ ध्यानम् ॥
मुक्ता विद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणं शङ्खं
चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १४॥

ॐ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ॥ १५॥
पावकी मे दिशं रक्षेत्पावकोज्ज्वलशालिनी ।
यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥ १६॥

पावमानीं दिशं रक्षेत्पवमानविलासिनी ।
दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥ १७॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेत् सर्वतो भुवनेश्वरी ॥ १८॥

ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते ।
ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षक्रः ॥ १९॥
ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः ।
सप्त व्याहृतयः पान्तु सर्वदा बिन्दुसंयुताः ॥ २०॥

वेदमाता च मां पातु सरहस्या सदैवता ।
देवीसूक्तं सदा पातु सहस्राक्षरदेवता ॥ २१॥
चतुःषष्टिकला विद्या दिव्याद्या पातु देवता ।
बीजशक्तिश्च मे पातु पातु विक्रमदेवता ॥ २२॥

तत्पदं पातु मे पादौ जङ्घे मे सवितुःपदम् ।
वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥ ५३॥
देवस्य मे तु हृदयं धीमहीति गलं तथा ।
धियो मे पातु जिह्वायां यःपदं पातु लोचने ॥ २४॥

ललाटे नः पदं पातु मूर्धानं मे प्रचोदयात् ।
तद्वर्णः पातु मूर्धानं सकारः पातु भालकम् ॥ २५॥
चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः ।
नासापुटेर्वकारो मे रेकारस्तु कपोलयोः ॥ २६॥

णिकारस्त्वधरोष्ठे च यकारस्तूर्ध्व ओष्ठके ।
आत्यमध्ये भकारस्तु गोकारस्तु कपोलयोः ॥ २७॥
देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः ।
स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ २८॥

मकारो हृदयं रक्षेद्धिकारो जठरं तथा ।
धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ॥ २९॥
गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् ।
प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशयोः ॥ ३०॥

दकारो गुल्भदेशं तु यात्कारः पादयुग्मकम् ।
जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा ॥ ३१॥
सर्वतः सर्वदा पातु आपोज्योतीति षोडशी ।
इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥ ३२॥

चतुःषष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् ।
जपारम्भे च हृदयं जपान्ते कवचं पठेत् ॥ ३३॥
स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः ।
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ॥ ३४॥

पुष्पाञ्जलिं च गायत्र्या मूलेनैव पठेत्सकृत् ।
शतसाहस्रवर्षाणां पूजायाः फलमाप्नुयात् ॥ ३५॥
भूर्जपत्रे लिखित्वैतत् स्वकण्ठे धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः ॥ ३६॥

त्रैलोक्यं क्षोभयेत्सर्वं त्रैलोक्यं दहति क्षणात् ।
पुत्रवान् धनवान् श्रीमान्नानाविद्यानिधिर्भवेत् ॥ ३७॥
ब्रह्मास्त्रादीनि सर्वाणि तदङ्गस्पर्शनात्ततः ।
भवन्ति तस्य तुच्छनि किमन्यत्कथयामि ते ॥ ३८॥

अभिमन्त्रितगायत्रीकवचं मानसं पठेत् ।
तज्जलं पिबतो नित्यं पुरश्चर्याफलं भवेत् ॥ ३९॥
लघुसामान्यकं मन्त्रं, महामन्त्रं तथैव च ।
यो वेत्ति धारणां युञ्जन्, जीवन्मुक्तः स उच्यते ॥ ४०॥

सप्ताव्याहृतिविप्रेन्द्र सप्तावस्थाः प्रकीर्तिताः ।
सप्तजीवशता नित्यं व्याहृती अग्निरूपिणी ॥ ४१॥
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥ ४२॥

शतं सहस्रमभ्यर्च्य गायत्री पावनं महत् ।
दशशतमष्टोत्तरशतं गायत्री पावनं महत् ॥ ४३॥
भक्तियुक्तो भवेद्विप्रः सन्ध्याकर्म समाचरेत् ।
काले काले प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥ ४४।

प्रणवं पूर्वमुद्धृत्य भूर्भुवस्वस्तथैव च ।
तुर्यं सहैव गयत्रीजप एवमुदाहृतम् ॥ ४५॥
तुरीयपादमुत्सृज्य गायत्रीं च जपेद्द्विजः ।
स मूढो नरकं याति कालसूत्रमधोगतिः ॥ ४६॥

मन्त्रादौ जननं प्रोक्तं मत्रान्ते मृतसूत्रकम् ।
उभयोर्दोषनिर्मुक्तं गायत्री सफला भवेत् ॥ ४७॥
मत्रादौ पाशबीजं च मन्त्रान्ते कुशबीजकम् ।
मन्त्रमध्ये तु या माया गायत्री सफला भवेत् ॥ ४८॥

वाचिकस्त्वहमेव स्यादुपांशु शतमुच्यते ।
सहस्रं मानसं प्रोक्तं त्रिविधं जपलक्षणम् ॥ ४९॥
अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ।
जपं चाक्षस्वरूभेणानामिकामध्यपर्वणि ॥ ५०॥

अनामा मध्यया हीना कनिष्ठादिक्रमेण तु ।
तर्जनीमूलपर्यन्तं गायत्रीजपलक्षणम् ॥ ५१॥
पर्वभिस्तु जपेदेवमन्यत्र नियमः स्मृतः ।
गायत्री वेदमूलत्वाद्वेदः पर्वसु गीयते ॥ ५२॥

दशभिर्जन्मजनितं शतेनैव पुरा कृतम् ।
त्रियुगं तु सहस्राणि गायत्री हन्ति किल्बिषम् ॥ ५३॥
प्रातःकालेयु कर्तव्यं सिद्धिं विप्रो य इच्छति ।
नादालये समाधिश्च सन्ध्यायां समुपासते ॥ ५४॥

अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने ।
असङ्ख्यया च यज्जप्तं तज्जप्तं निष्फलं भवेत् ॥ ५५॥
विना वस्त्रं प्रकुर्वीत गायत्री निष्फला भवेत् ।
वस्त्रपुच्छं न जानाति वृथा तस्य परिश्रमः ॥ ५६॥

गायत्रीं तु परित्यज्य अन्यमन्त्रमुपासते ।
सिद्धान्नं च परित्यज्य भिक्षामटति दुर्मतिः ॥ ५७॥
ऋषिश्छन्दो देवताख्या बीजं शक्तिश्च कीलकम् ।
नियोगं न च जानाति गायत्री निष्फला भवेत् ॥ ५८॥

वर्णमुद्राध्यानपदमावाहनविसर्जनम् ।
दीपं चक्रं न जानाति गायत्री निषफला भवेत् ॥ ५९॥
शक्तिर्न्यासस्तथा स्थानं मन्त्रसम्बोधनं परम् ।
त्रिविधं यो न जानाति गायत्री तस्य निष्फला ॥ ६०॥

पञ्चोपचारकांश्चैव होमद्रव्यं तथैव च ।
पञ्चाङ्गं च विना नित्यं गायत्री निष्फला भवेत् ॥ ६१॥
मन्त्रसिद्धिर्भवेज्जातु विश्वामित्रेण भाषिम् ।
व्यासो वाचस्पतिर्जीवस्तुता देवी तपःस्मृतौ ॥ ६२॥

सहस्रजप्ता सा देवी ह्युपपातकनाशिनी । लक्षजाप्ये तथा तच्च,
महापातकनाशिनी ।कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ॥ ६३॥
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।
शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥ ६४॥



॥ इति श्री गयत्री कवचं सम्पूर्णम् ॥






॥ श्री तुलसी कवचम् ॥
॥ Shri Tulsi Kavach ॥


॥ ॐ गण गणपतये नमः ॥

अस्य श्री तुलसीकवच स्तोत्रमंत्रस्य ।
श्री महादेव ऋषिः । अनुष्टुप्छन्दः । श्रीतुलसी देवता ।
मन ईप्सितकामनासिद्धयर्थं जपे विनियोगः ।

तुलसी श्रीमहादेवि नमः पंकजधारिणी ।
शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥ १ ॥
दृशौ मे पद्मनयना श्रीसखी श्रवणे मम ।
घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम ॥ २ ॥

जिव्हां मे पातु शुभदा कंठं विद्यामयी मम ।
स्कंधौ कह्वारिणी पातु हृदयं विष्णुवल्लभा ॥ ३ ॥
पुण्यदा मे पातु मध्यं नाभि सौभाग्यदायिनी ।
कटिं कुंडलिनी पातु ऊरू नारदवंदिता ॥ ४ ॥

जननी जानुनी पातु जंघे सकलवंदिता ।
नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी ॥ ५ ॥
संकटे विषमे दुर्गे भये वादे महाहवे ।
नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा ॥ ६ ॥

इतीदं परमं गुह्यं तुलस्याः कवचामृतम् ।
मर्त्यानाममृतार्थाय भीतानामभयाय च ॥ ७ ॥
मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् ।
वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥ ८ ॥

द्रविणाय दरिद्राण पापिनां पापशांतये ॥ ९ ॥
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् I
पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षिणाम् ॥ १० ॥

राज्यायभ्रष्टराज्यानामशांतानां च शांतये ।
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वांतरात्मनि ॥ ११ ॥
जाप्यं त्रिवर्गसिध्यर्थं गृहस्थेन विशेषतः ।
उद्यन्तं चण्डकिरणमुपस्थाय कृतांजलिः ॥ १२ ॥

तुलसीकानने तिष्टन्नासीनौ वा जपेदिदम् ।
सर्वान्कामानवाप्नोति तथैव मम संनिधिम् ॥ १३ ॥
मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् ।
या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत् ॥ १४ ॥

सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् ।
वंध्याया मार्जयेदंगं कुशैर्मंत्रेण साधकः ॥ १५ ॥
साSपिसंवत्सरादेव गर्भं धत्ते मनोहरम् ।
अश्वत्थेराजवश्यार्थी जपेदग्नेः सुरुपभाक ॥ १६ ॥

पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः ।
कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम ॥ १७ ॥
श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत् ।
किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः ॥ १८ ॥

यं यं काममभिध्यायेत्त तं प्राप्नोत्यसंशयम् ।
मम गेहगतस्त्वं तु तारकस्य वधेच्छया ॥ १९ ॥
जपन् स्तोत्रं च कवचं तुलसीगतमानसः ।
मण्डलात्तारकं हंता भविष्यसि न संशयः ॥ २० ॥



॥ इति श्री तुलसी कवचं सम्पूर्णम ॥






॥ श्री सीताकवचम् ॥
॥ Shri Sita Kavach ॥


॥ ॐ गण गणपतये नमः ॥

॥ अगस्तिरुवाच ॥
सम्यक् पृष्टं त्वया वत्स सावधानमनाः श्रुणु ।
आदौ वक्ष्याम्यहं रम्यं सीतायाः कवचं शुभम् ॥ १॥

या सीतावनि संभवाथमिथिलापालेन संवर्धितापद्माक्षनृपतेः
सुता नलगता या मातुलिङ्गोत्भवा।
या रत्ने लयमागता जलनिधौ या वेद वारं गतालङ्कां
सा मृगलोचना शशिमुखी मांपातु रामप्रिया ॥ २॥

॥ अथ न्यासः ॥
अस्य श्री सीताकवच मन्त्रस्य अगस्ति ऋषिः ।
श्री सीता देवता । अनुष्टुप् छन्दः । रमेति बीजम् ।
जनकजेति शक्तिः ऽवनिजेति कीलकम् ।
पद्माक्ष सुतेत्यस्त्रम् । मातुलिङ्गीति कवचम् ।
मूलकासुर घातिनीति मन्त्रः ।
श्रीसीतारामचन्द्र प्रीत्यर्थं सकल
कामना सिद्ध्यर्थं जपे विनियोगः ॥

॥ अथ अङ्गुळी न्यासः ॥
ॐ ह्रां सीतायै अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं रमायै तर्जनीभ्यां नमः ।
ॐ ह्रूं जनकजायै मध्यमाभ्यां नमः ।
ॐ ह्रैं अवनिजायै अनामिकाभ्यां नमः ।
ॐ ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः मातुलिङ्ग्यै करतल करपृष्ठाभ्यां नमः ॥

॥ हृदयादिन्यासः ॥
ॐ ह्रां सीतायै हृदयाय नमः ।
ॐ ह्रीं रमायै शिरसे स्वाहा ।
ॐ ह्रूं जनकजायै शिकायै वषट् ।
ॐ ह्रैं अवनिजायै कवचाय हुम् ।
ॐ ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट् ।
ॐ ह्रः मातुलिङ्ग्यै अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ॥

॥ अथ ध्यानम् ॥
सीतां कमलपत्राक्षीं विद्युत्पुञ्च समप्रभाम् ।
द्विभुजां सुकुमाराङ्गीं पीतकौसेय वासिनीम् ॥ १॥
सिंहासने रामचन्द्र वामभाग स्थितां वराम् ।
नानालङ्कार सम्युक्तां कुण्डलद्वय धारिणीम् ॥ २॥

चूडाकङ्कण केयूर रशना नूपुरान्विताम् ।
सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥ ३॥
मयूरा भरणेनापि घ्राणेति शोभितांशुभाम् ।
हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥ ४॥

बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेह मुत्तमम् ।
स्मिताननां गौरवर्णां मन्दार कुसुमं करे ॥ ५॥
बिभ्रन्ती मपरे हस्ते मातुलिङ्ग मनुत्तमम् ।
रम्यवासां च बिम्बोष्ठीं चन्द्र वाहन लोचनाम् ॥ ६॥

कलानाथ समानास्यां कलकण्ठ मनोरमाम् ।
मातुलिङ्गोत्भवां देवीं पद्माक्षदुहितां शुभाम् ॥ ७॥
मैथिलीं रामदयितां दासीभिः परिवीजिताम् ।
एवं ध्यात्वा जनकजां हेमकुंभ पयोधरां ॥ ८॥

सीतायाः कवचं दिव्यं पठनीयं सुभावहं ॥ ९॥

ॐ । श्री सीता पूर्वतः पातु दक्षिणेवतु जानकी ।
प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥ १॥
अधः पातु मातुलिङ्गी ऊर्ध्वं पद्माक्षजावतु ।
मध्येवनिसुता पातु सर्वतः पातु मां रमा ॥ २॥

स्मितानना शिरः पातु पातु भालं नृपात्मजा ।
पद्मावतु भृवोर्मध्ये मृगाक्षी नयनेवतु ॥ ३॥
कपोले कर्णमूले च पातु श्रीराम वल्लभा ।
नासाग्रं सात्विकी पातु पातु वक्त्रं तु राजसी ॥ ४॥

तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता ।
दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥ ५॥
पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता ।
भुजौ पातु वरारोहा करौ कङ्कण मण्डिता ॥ ६॥

नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा ।
वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥ ७॥
पृष्ठदेशे वह्निगुप्ता वतु मां सर्वदैव हि ।
दिव्यप्रदा पातु नाभिं कटिं राक्षस मोहिनी ॥ ८॥

गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया ।
ऊरू रक्षतु रंभोरूः जानुनी प्रिय भाषिणी ॥ ९॥
जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता ।
पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥ १०॥

पादाङ्गुळीः सदा पातु मम नूपुर निस्वना ।
रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥ ११॥
रात्रौ पातु कालरूपा दिने दानैक तत्परा ।
सर्वकालेषु मां पातु मूलकासुरघातिनी ॥ १२॥

एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तुयः ॥ १३॥
जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात् ।
धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥ १४॥

स्त्रीकामार्थी शुभां नारीं सुखार्थि सौख्य माप्नुयात् ।
अष्टवारं जपनीयं सीतायाः कवचं सदा ॥ १५॥
अष्टभूसुर सीतायै नरै प्रीत्यार्पयेत् सदा ।
फलपुष्पादि कादीनि यानि यानि पृथक् पृथक् ॥ १६॥

सीतायाः कवचं चेदं पुण्यं पातक नाशनम् ।
ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥ १७॥
पठन्ति रामकवचं सीतायाः कवचं विना ।
तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥ १८॥

तस्मात् सदा नरैर् जाप्यं कवचानां चतुष्टयम् ।
आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥ १९॥
ततः पटेच्च सीतायाः श्रीरामस्य ततः परम् ।
एवं सदा जपनीयं कवचानां चतुष्टयम् ॥ २०॥


॥ इति श्री सीता कवचं सम्पूर्णम् ॥




No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...